________________
पारे. '५ सू. ८
स्याद्वादरत्नाकरसहितः
मित्तमात्रत्वम् । तस्य काले सद्भावाभावान्न व्यभिचारः। कालो हि परिणामिनां निमित्तमात्रम् । स्थविरगतो यष्टिवत् । न पुनः क्रियानिवर्तकः पर्णादी पवनवत् । नात्मा शरीरादौ क्रियाहेतुः । निर्गुणस्यापि मुक्तस्य तद्धेतृत्वप्रसंगात् । प्रयत्नो धर्मोऽधर्मश्वात्मनो गुणो हि शरीरेऽन्यत्र चाव्ये क्रियाहेतुम्ततोऽसिद्धो हेतुरिति परेषामाशयो ५ न युक्तः । प्रयत्नस्य गुणत्वासिद्धेः । वीर्यान्तरायक्षयोपशमादिकारणादिना ह्यात्मप्रदेशपरिस्पन्दः प्रयत्नः क्रियैवेति स्याद्वादिभिः स्वीकारात् । धर्माधर्म योरपि पुद्गलपरिणामत्वसमर्थनान्नात्मगुणत्वम् । सन्नप्यसौ प्रयत्नादिरात्मगुणः सर्वथात्मनो भिन्नो न प्रमाणसिद्धोऽस्तीति निवेदितम् । कथंचित्तदाभिन्नस्तु शरीरादौ क्रियाहेतुरित्यात्मैव तद्रे- १० तुरुक्तः स्यात् । तथा च कथमसिद्धो हेतुः प्रयत्नवदात्मसंयोग एव शरीरादौ क्रियाहेतुरिति चेत् । मैवम् । एवमप्यम्य स्वाश्रयादात्मनः कथंचिदभेदेनात्मन एव क्रियाहतुवचनात् । भेदेऽपि क्रियावान् , आत्मा, तद्धेतुगुणाश्रयत्वात् , वायुवत् । इत्यनुमानात्तस्य क्रियावत्यमेव सिध्यति । गगनेन व्यभिचारोऽत्रेति चेत् । न । तस्य क्रियाहेतुगु- १५ णाश्रयत्वापिद्धेः । संयोगस्तद्धे नुस्तत्र गुणोऽस्तीति चेत् । नैवम् । तस्य तद्धेतुत्वासिद्धः । समीरसंयोग एव हि तृणादी क्रियाहेतुः । न पुनराकाशतृणादिसंयोगः । सर्वदा तत्सद्भावेन सदैव तत्र तदुत्पत्तिप्रसक्तेः । न च य एवं तृणादौ समीरसंयोगः स एवाकाशेऽस्तीति प्रतियोगि, संयोगस्य भेदात् । अथ यथौष्ण्यापेक्षया वह्निसंयोग: २० कुम्भादौ रूपादीपाक जाञ्जनयति न पुनः म्वाश्रये कृष्णवर्त्मनि तथात्मसंयोगोऽपि शरीरादौ क्रियाहेतुर्न त्वात्मनि स्वाधार इति चेत् । तदयुक्तम् । यतो यदि नामायं संयोगश्चाश्रये पाकजानजनयन्नान्यत्र ताञ्जनयति । तदा प्रस्तुते किमायातम् ! न हि चाषेण पञ्चाशद्भवति निदर्शनमात्रोपदर्शने हि क्रियाहेतुगुणाश्रयत्वहेतोर्न नाम मनागपि २५ त्र्याप्तिः खण्डयितुं पार्यते । अथ तन्य सक्रियत्वे लोष्टादिव मूर्त्यभि
"Aho Shrut Gyanam"