________________
प्रमाणनयतत्त्वालोकालङ्कारः
परि. ५ सू. ८
संबन्धः स्यात् । तत्र केयं मूर्ति म । असर्वगतद्रम्परिनाणं रूपादिमत्त्वं वा । तत्राद्यः पक्षः कक्षीकृतत्वान्न दोषावह: । द्वितीये तु नास्ति व्याप्तिः । न खलु सक्रियेण तथाविधमूर्तिमतेव भाव्यम । मनसानैकान्तिकत्वात् । तम्य रुपादिरहितस्यैव परैः स्वीकारात । ५ अथात्मन: सक्रियत्वे कुम्भादिवदनित्यत्वं स्यात् । तन्न । परमाणु
भिर्मनसा च व्यभिचारात् । किं च । अस्यामुत: कथंचिदनित्यत्वं प्रसज्यते । सर्वथा वा । यदि कथंचिन्न प्रसंगः । तथास्माभिरभ्युपगमात् । सर्वथा वनित्यत्वस्य घटादावप्यसिद्धत्वासाध्यविकलत्वं
दृष्टान्तस्य । किं च । आत्मनो निष्क्रियत्वे संसाराभावः म्यात । १० संसारो हि शरीरस्थ मनस आत्मनो वा भवेत् । न तावच्छरीरस्य ।
मनुष्यलोके भस्मीभूतम्य तम्यामरपुरादावगमनात् । नापि मनसः । निष्क्रियस्याम्यापि तद्विरहात । सक्रियत्वेऽपि क्रियायाम्तम्मादभेदे. तद्वन्नित्यत्वप्रसंगान्नाम्य कचित्क्षणमात्रमप्यत्रस्थानं स्यात् । भेदे
तु संवन्धासिद्धिः । समवायम्य निषेत्स्यमानत्वादन्यम्य चासंभवात् । १५ अचेतनं च मनोऽनिष्टनरकादिपरिहारेणाभिमते स्वर्गादो कथं प्रवर्तेत।
स्वभावत ईश्वरात्तदात्मनोऽदृष्टाद्वा । प्रथमपक्षे दत्तः सर्वत्र ज्ञानाय जलाञ्जलिः । द्वितीये तु शम्भुप्रतिषेध एव समाधानम् । को वायमीश्वरस्याग्रहो यतस्तत्प्रेरयति न तदात्मानम् । आत्मप्रेरणा बेदमप्यनु.
गृहीतं भवति । २० . अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ।।' इति । तृतीये तु ज्ञातमज्ञातं वात्मना मनः प्रर्यत । न ज्ञातम् । जन्तुमात्रम्य तत्परिज्ञानाभावात् । नाप्यज्ञातम् । अज्ञातस्य बाणादिवत्प्रेरणासंभवात् । ननु स्वप्ने हम्त्यादयोऽज्ञाता एवं प्रेर्यन्ते ।
१ महाभा. व.प. अ. ३० श्लो. २८१ २ अयं पाठ: प्र. के. मार्तण्डेऽस्ति । मूले त 'न तु' इत्यसंगतमस्ति ।।
"Aho Shrut Gyanam"