________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः तदनुचितम् । अहितपरिहारेण हिते प्रेरणासंभवात् । ज्वलज्ज्वलनज्वालाजालेऽपि तदा हम्नादिप्रेरणोपलम्भात् । चतुर्थपक्षोऽपि न साधीयान् । अचेतनम्यादृष्टस्यापि तत्प्रेरकत्वायोगात् । तत्प्रेरितस्यात्मन एव वरं प्रवृत्तिरस्तु । चेतनत्वात्तस्य । दृश्यते हि वशीकरणौषधसंयुक्तस्य चेतनस्यानिष्टग्रहगमनपरिहारेण विशिष्ट ग्रहगमनम्। ५ तन्न मनसोऽपि संसारः । आत्मनस्तु स्यात् , यद्येकदेहपरित्यागेन देहान्तरमसौ बजेदिति सिद्धमात्मनः क्रियावत्त्वम् । ततोऽपि चासर्वगत्वमिति । यत्पुनरात्मनो विभुत्वसिद्धावभिधीयते । देवदत्तं प्रत्युपसर्पन्तः पश्चादयो देवदत्तविशेषगुणाकृष्टाः संप्रत्युपसर्पणत्वाद्धासादिवत् । त्रासो हि देवदत्तं प्रत्युपसर्पन्देवदत्तविशेषगुणेन प्रयत्न- १०. रूपेणाकृष्यमाणो दृष्टः । ततः पश्चादयोऽपि तथैव युक्ता इति तदाकृष्टिहेतोगुणस्य सिद्धिः । न वा प्राप्तानां तेषां तेन गुणेनाकर्षणं संभवतीति तैस्तद्गुणस्य प्राप्तिसिद्धिः । तथा देवदत्ताङ्ग नाङ्गादिकं, देवदत्तगुणपूर्वकम्, कार्यत्वे सति तदुपकारकत्वात् , प्रासादिवत् । कार्यदेशे च सन्निहितं कारणं कार्यजन्मनि व्याप्रियते नान्यथा । १५ अतिप्रसंगात् । अतस्तदङ्गनादिकायप्रादुर्भावदेशे तत्कारणजनन्यादिवद्देवदत्तगुणसिद्धिः । यत्र च गुणाः प्रतीयन्ते तत्र तद्गुण्यप्यनुमीयते । तमन्तरेण तेषामनुपपत्तेः । स्वाश्रयसंयोगापेक्षाणां गुणानामाश्रयान्तरे कर्मारम्भकत्वोपपत्तेश्च । तथा हि- अदृष्टं स्वाश्रयसंयुक्त आश्रयान्तरे कारभते । एकद्रव्यत्वे सति क्रियाहेतुगुणत्वात्प्रयत्न- २० वत् । न चास्य क्रियाहेतुगुणत्वमसिद्धम् । अग्नेरूद्धज्वलनं वायोस्तिर्यक्पवनम् , अणुमनसोश्चाद्यं कर्म, देवदत्तविशेषगुणकारितं, कार्यत्वे सति तदुपकारकत्वात् , पाण्यादिपरिस्पन्दवदित्यनुमानतस्तसिद्धेः । नाप्येकद्रव्यत्वमसिद्धम् । एकद्रव्यमदृष्टं विशेषगुणत्वाच्छब्दवत्, इत्यतस्तसिद्धेः । एकद्रव्यत्वादित्युच्यमाने रूपादिभिर्व्यभि- २५ चारः । तन्निरासार्थ क्रियाहेतुगुणत्वादित्युक्तम् । अम्मिन्नेवाभिधीयमाने
"Aho Shrut Gyanam"