________________
२०४
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ५ सु. ८
तु करमुसलसंयोगेन स्वाश्रयासंयुक्तस्तम्भादिक्रियाहेतुनाऽनेकान्तः । तन्निरासार्थमकद्रव्यत्वे सतीति ।
तदेतदफलं सर्वमूषरे कृषिकर्मवत् ।
निर्निमेषपरीक्षारख्यचक्षुषा लक्ष्यते बुधैः ।। ६६५ ॥ तथा हि--
. शरीरमात्मा तद्योगः शरीरं युक्तमात्मना । आत्मा शरीरसंयुक्त आत्मांशो वा तथाविधः ॥ ६६६ ॥ देवदत्तध्वनेवांच्यप्रयोग प्राचि कथ्यते । इत्युग्राभ्येति षड् दी षण्मुखस्येव षण्मुखी ।। ६६७ ।। शरीरं चेत्तदा सिध्येत्तदेव व्याप्तिमत्तव । नात्मा तथा च जातोऽयं पिपासोः पावकागमः ॥ ६६८ ॥ अथात्मा तन्न नित्यत्वव्यापिल्लाभ्यामयं यतः । आकृष्यमाणवस्तूनां विद्यते देशकालयोः ॥ ६६९ ॥ न चामूदृशमात्मानं प्रति कम्यारि सर्पणम् । युज्यतेऽत्यन्तमाश्लिष्टं यथा मातुः शिशुं प्रति ॥ ६७० ॥
तथा हिं-- अर्थोऽन्यदेशोऽपरदेशमर्थं प्रति प्रयातीह यथा शरादिः । यद्वान्यकालोऽपरकारमेनं यथा घटादीन्प्रति मृत्तिकादिः ।। ६७१।।
एवं च यत्प्रोक्तमिहानुमाने विशेषणं धर्मिणि यच्च साध्यम् । २० यश्चापि हेतुः सकलं तदेतत्परस्य यज्ञे स्वविकल्पमात्रम् ॥ ६७२ ।।
गापि तन्त्वात्मसंयोगपक्षः संगतिमङ्गति । यतो गुणस्वरूपोऽयमिष्यते कणभुक्सुतैः ।। ६७३ ।। युक्तो गुणो न चैकस्मिन्गुणानां निर्गुणत्वतः । पश्वाद्याकृष्टिकृत्तस्मिन्नदृष्टं तत्कुतो भवेत् ।। ६७४ ।। चतुर्थपञ्चमौ पक्षौ प्रतिक्षेप्यौ यथा पुरा । प्रतिक्षिप्तो पुरश्चारिद्वैतीयीकाविमौ स्फुटम् ।। ६७५ ॥
"Aho Shrut Gyanam"