Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 208
________________ परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः स्मृतिनिमित्तम् । तत्रैनं हन्मीति प्रयत्नो द्वेषात् । वेदार्थविप्लवकारिषु द्वेषाद्धर्मः । तदर्थपरिपालनपरेषु द्वेषादधर्मः ! स्मृति.... .... .... .... ....गणनया गुणानां चतुर्विंशतेरधिकत्वात् । अथ नीलधवलादिव्यक्तिभेदेऽपि सर्वत्र रूपल्वसामान्याविशेषादेक एकरूपोऽयं गुण इति न तत्संख्याक्षतिरिति चेत् । तर्हि धर्माधर्मयोरप्यदृष्टत्वसामान्य- ५ विशेषादेक एवायमपि गुणः स्यादिति कथं न तत्संख्याव्याधातः । अथादृष्टत्वं नाम नास्त्येव सामान्यम् । ननु रूपत्वमपि कथं भवेत् । नीलादौ सर्वत्र रूपं रूपमिति प्रत्ययानुवृत्तरिति चेत् । इतरत्राप्यदृष्टमदृष्टमिति प्रत्ययानुवृत्तेस्तदस्तु । अथोपाधिक एवायं प्रत्ययो न सामान्यनिमित्तः । सामान्येषु सामान्यप्रत्ययवदिति चेत् । नीला. १०. दावपि किं न तथा । कस्तत्रोपाधिरिति चेत् । धर्माधर्मयोः क इति वाच्यम् । दर्शनयोग्यपदार्थेतरत्वामति चेत् । इतरत्रापि चक्षुर्ग्राह्यत्वं भविष्यति । दर्शनयोग्यपदार्थेतरत्वस्य चोपाधित्वे गुरुत्वमप्यदृष्ट इति व्यपदिश्येत । तस्योपाधेस्तत्र भावात् । अथ नीलादिषु रूपप्रत्ययानुवृत्ती रूपत्वसामान्यनिमित्ता तावदुभाभ्यामपि प्रतिपन्नेति चेत् । १५: एवमेतत् । न हि तदस्माभिः प्रतिषिध्यते किं तु प्रसंगः प्रवर्त्यते । यदि धर्माधर्मयोरदृष्टप्रत्ययानुवृत्तिरौपाधिकी तदाऽन्यत्रापि सा तथैव स्यात् । समानयोगक्षेमत्वात् । किं च भवतापि यत्र वस्तुन्युपेत्रमाने बाधकोपनिपातस्तत्रैव तत्प्रत्ययस्यौपाधिकत्वमुपागामि । यथा सामान्येषु सामान्योपगमेऽनवस्थोपनिपाते सामान्यप्रत्ययस्य । न चादृष्टत्वोपगमे २०. किंचिद्वाधकमस्ति । गुणेषु चतुर्विशतिसंख्याव्याघातोऽस्तीति चेत् । असदेतत् । अस्याद्यापि विवादास्पदीभूतत्वात् । अथ धर्माधर्मों तदुभयवत्येकसामान्यानुगतौ न भवतो गुणत्वात् । यावेवं तावेवम् । यथा सुखदुःखे तथा चैतौ । ततस्तथेत्यनुमानमस्त्येव बाधकमिति. चेत् । तदभम् । सुरभ्यसुरभिगन्धाभ्यां गुणत्वस्य व्यभिचारित्वात् । २५ . तौ हि गुणौ तदुभयवर्तिनैव सामान्येन गन्धत्वेनानुगतौ च । न च "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284