________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः स्मृतिनिमित्तम् । तत्रैनं हन्मीति प्रयत्नो द्वेषात् । वेदार्थविप्लवकारिषु द्वेषाद्धर्मः । तदर्थपरिपालनपरेषु द्वेषादधर्मः ! स्मृति.... .... .... .... ....गणनया गुणानां चतुर्विंशतेरधिकत्वात् । अथ नीलधवलादिव्यक्तिभेदेऽपि सर्वत्र रूपल्वसामान्याविशेषादेक एकरूपोऽयं गुण इति न तत्संख्याक्षतिरिति चेत् । तर्हि धर्माधर्मयोरप्यदृष्टत्वसामान्य- ५ विशेषादेक एवायमपि गुणः स्यादिति कथं न तत्संख्याव्याधातः । अथादृष्टत्वं नाम नास्त्येव सामान्यम् । ननु रूपत्वमपि कथं भवेत् । नीलादौ सर्वत्र रूपं रूपमिति प्रत्ययानुवृत्तरिति चेत् । इतरत्राप्यदृष्टमदृष्टमिति प्रत्ययानुवृत्तेस्तदस्तु । अथोपाधिक एवायं प्रत्ययो न सामान्यनिमित्तः । सामान्येषु सामान्यप्रत्ययवदिति चेत् । नीला. १०. दावपि किं न तथा । कस्तत्रोपाधिरिति चेत् । धर्माधर्मयोः क इति वाच्यम् । दर्शनयोग्यपदार्थेतरत्वामति चेत् । इतरत्रापि चक्षुर्ग्राह्यत्वं भविष्यति । दर्शनयोग्यपदार्थेतरत्वस्य चोपाधित्वे गुरुत्वमप्यदृष्ट इति व्यपदिश्येत । तस्योपाधेस्तत्र भावात् । अथ नीलादिषु रूपप्रत्ययानुवृत्ती रूपत्वसामान्यनिमित्ता तावदुभाभ्यामपि प्रतिपन्नेति चेत् । १५: एवमेतत् । न हि तदस्माभिः प्रतिषिध्यते किं तु प्रसंगः प्रवर्त्यते । यदि धर्माधर्मयोरदृष्टप्रत्ययानुवृत्तिरौपाधिकी तदाऽन्यत्रापि सा तथैव स्यात् । समानयोगक्षेमत्वात् । किं च भवतापि यत्र वस्तुन्युपेत्रमाने बाधकोपनिपातस्तत्रैव तत्प्रत्ययस्यौपाधिकत्वमुपागामि । यथा सामान्येषु सामान्योपगमेऽनवस्थोपनिपाते सामान्यप्रत्ययस्य । न चादृष्टत्वोपगमे २०. किंचिद्वाधकमस्ति । गुणेषु चतुर्विशतिसंख्याव्याघातोऽस्तीति चेत् । असदेतत् । अस्याद्यापि विवादास्पदीभूतत्वात् । अथ धर्माधर्मों तदुभयवत्येकसामान्यानुगतौ न भवतो गुणत्वात् । यावेवं तावेवम् । यथा सुखदुःखे तथा चैतौ । ततस्तथेत्यनुमानमस्त्येव बाधकमिति. चेत् । तदभम् । सुरभ्यसुरभिगन्धाभ्यां गुणत्वस्य व्यभिचारित्वात् । २५ . तौ हि गुणौ तदुभयवर्तिनैव सामान्येन गन्धत्वेनानुगतौ च । न च
"Aho Shrut Gyanam"