________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सू. ८ नादिप्रसादजनकमुत्पद्यते तत्सुखं संनिहितेऽप्यभिमतेऽर्थे विषयान्तरव्यासक्तस्य सुखानुत्पादादिष्टोपलब्धेः कारणत्वं गम्यते । वियुक्तस्य सुखाभावाद्विषयसंनिकर्षम्यापि कारणत्वावगमः । अनुग्रह स्त्विह सुखविषयं संवेदनम् । तच्च सुखमतीतविषयेषु स्मृतिजम् । अनागतेषु ५ संकल्पजम् । यत्तु विदुषामसत्सु विषयानुम्मरण संकल्पेवाविर्भवति
तद्विद्याशमसंतोषधर्मविशेषनिमित्तमिति । शेषमस्यात्मैकद्रव्यप्रदेशवृत्त्यादिबुद्धिवत् । उपघातलक्षणं दुःखम् । उपहन्यतेऽनेनेत्युपघातः । उपघातलक्षणमुपत्रातस्वभावमित्यर्थः । दुःखमुपजातं प्रतिकूल.
स्वभावतया स्वात्मविषयमनुभवं कुर्वदात्मानमुपहन्ति । अयमर्थः-- १० विषाद्यनभिप्रेतविषयसांनिध्ये सत्यनिष्टोपलब्धीन्द्रियार्थसनिकर्षादध
थिपेक्षानिमित्तादात्ममनः संयोगाच्चासमवायिनो यदम!पघातदैन्यनिमित्तमुत्पद्यते तद्दःखम् । अमर्षोऽसहिष्णुता द्वेष इति यावत् । उपघातो दुःखानुभवः । दुःखे सति तदनुभवलक्षण आत्मोषधातः
स्यात् । दैन्यं विच्छायता । तेषां निमित्तम् । अतीतेषु सर्पव्याघ्र१५ चौरादिषु स्मृतिजम् । अनागतेषु संकल्पजम् । अस्यापि शेषमात्मैक
द्रव्यप्रदेशवृत्त्यादिबुद्धिवत् । स्वार्थ परार्थं वा । अप्राप्तप्रार्थना इच्छा । सा चात्ममनसोः संयोगात्सुखापेक्षास्मृत्यपेक्षाद्वोत्पद्यते । प्रयत्नम्मृतिधर्माधर्मनिमित्तं कामोऽभिलाषो रागः संकल्पः कारुण्यं वैराग्यमुपधाभाव इत्येवमादयः । इच्छाभेदा मैथुनेच्छा कामोsभ्यवहारेच्छाऽभिलाषः । पुनःपुनर्विषयानुरञ्जनेच्छा रागः । अनागतकरणेच्छा संकल्पः । स्वामनपेक्ष्य परर्दुःखप्रहाणेच्छा कारुण्यम् । दोषदर्शनाद्विषयपरित्यागेच्छा वैराग्यम् । परवश्चनेच्छा उपधा । अन्तर्निगूढेच्छाभावश्चिकीर्षा जिहीर्षेति क्रियाभेदादिच्छाभेदा
भवन्ति । शेषमस्या अपि सर्व बुद्धिवत् । प्रज्वलनात्मको द्वेषः । २५ यस्मिन्सति प्रज्वलितमिवात्मानं मन्यते स द्वेषः । स ' चात्ममनसोः संयोगादु:खापेक्षात्स्मृत्यपेक्षाद्वोपजायते प्रयत्नधर्माधर्म
२०११
"Aho Shrut Gyanam"