________________
परि.५ मु. ८]
स्थाद्वादरत्नाकरसहितः
शब्दस्तस्य वंशदलविभागः कारणम् । परत्वमपरत्वं च परापराभिधानप्रत्ययनिमित्तम् । तद्विविधं दिक्कृतं कालकृतं च । दिक्कृतं देशविशेषप्रत्यायकम् । कालकृतं वयोभेदप्रत्यायकम् । तत्र दिक्कृतस्योत्पत्तिरभिधीयते । कथमेकस्यां दिश्यवस्थितयोः संयुक्तसंयोगबहुत्वाल्पत्वे सत्येकम्य द्रष्टुः संनिकृष्टमवधिं कृत्वा तस्माद्विप्रकृष्टोऽयमिति ५ परत्वाधारे विप्रकृष्टा बुद्धिरुत्पद्यते । तामपेक्ष्य परेण दिक्प्रदेशेन योगात्परत्वस्योत्पत्तिः । विप्रकृष्टं चावधिं कृत्वेतरस्मिन्सनिकृष्टा बुद्धिरुत्पद्यते । तामपेक्ष्यापरेण दिक्प्रदेशेन योगादपरत्वस्योत्पत्तिः । कालकृतयोरपि कथं वर्तमानकालयोरनियतदिग्देशसंयुक्तयोर्युवस्थ - विरयो रूढश्मश्रुकायस्थ वलीपलितादिसान्निध्ये सत्येकस्य द्रष्टु. १० युवानमवधिं कृत्वा स्थविरे विप्रकृष्टा बुद्धिरुत्पद्यते । तामपेक्ष्य परेण काठपदेशेन योगात्परत्वस्योत्पत्तिः । स्थविरं चावधिं कृत्वा यूनि संनिकृष्टा वुद्धिरुत्पद्यते । तामपेक्ष्यापरेण कालप्रदेशेन योगादपरत्वस्योपत्तिः । एते चापेक्ष्यबुद्धिविनाशादाश्रयविनाशाद्वा विनाशिनी मूत. कैकद्रव्यव्याप्यवृत्तिनी सामान्यगुणरूपे द्वीन्द्रियग्राह्ये अयाबद्रव्य . १५ भाविनी सर्वत्र कारणं च । बुद्धिरुपलब्धिज्ञानं प्रत्यय इति पर्यायाः । सा चानेकप्रकारार्थानन्त्यात्प्रत्यर्थनियतत्वाच । तस्याः सत्यप्यनेक. विधत्वे समासतो द्विविधा । विद्या चाविद्या च । तत्राविधा चतुर्विधा संशयविपर्ययानध्यवसायस्वमलक्षणा । विद्यापि चतुर्विधा प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा । द्विविधापीयमात्मैकद्रव्यप्रदेशवृत्तिवैशेषिकगुणरूपाऽ. २० यावव्यभाविनी अन्तःकरणग्राह्यात्ममनःसंयोगप्रभवापरत्वापरत्वद्वित्वद्विपृथक्त्वादीनां निमित्तम् । अनुग्रहलक्षणं सुखम् । अनुगृह्यतेऽनेनेत्यनुग्रहः । अनुग्रहलक्षणमनुग्रहस्वभावमित्यर्थः । सुखं ह्यनुकूलस्वभावतया स्वविषयानुभवं कुर्वत्पुरुषमनुगृह्णाति । अयमर्थः स्रगाद्यभिप्रेतविषयसांनिध्ये सतीष्टोपलब्धीन्द्रियार्थसंनिकर्षाद्धर्माद्यपेक्षा- २५ निमित्तादात्ममनसोः संयोगाच्चासमवायिनो यदनुग्रहाभिष्वङ्गनय -
"Aho Shrut Gyanam"