________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सु. ८ त्वेनाविनाशनिश्चयात् । इयं तु पाट्यमाने वंशे दलक्रिया द्रव्यारम्भकसयोगप्रतिद्वन्द्वीभूतविभागारम्भिकोपलभ्यत इति नासौ नमसो विभागमारभेतेत्यत एषा स्थितिरस्तीति विभागजविभागकल्पना क्रियते
संयोगान्तं कर्मेति तावस्थितम् । अन्यथा हि तस्य कालान्तर५ स्थायित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात् । तस्मात्कर्मणोऽचिरजीवित्वात्तदविनाशकेन संयोगेन भवितव्यम् । उत्तरश्च संयोगः पूर्वसंयोगोपरमे सति जायते नान्यथा । न च विभागव्यतिरिक्तः कश्चन संयोगस्य हन्ता समस्ति ।
कर्मानन्तरसंयोगजन्म निर्मातकौशलम् ।
न हि प्राक्तनसंयोगविनाशाय प्रकल्प्यते ।। ६८३ ॥ तस्माद्विभागेनैव संयोगवैरिणा भाव्यम् । स च यदधिकरणो विभागस्तदधिकरणमेव संयोगमुपशमयति । न ह्यङ्गुलिविभागः । कुण्डबदरसंयोगोपमर्दाय प्रभवतीत्यतो न वंशदलवृत्तिविभागो दलाकाश.
संयोगमपहन्तुमलमिति । नूनं दलाकाशसंयोगविरोधिना दलाकाश१५ विभागेन भवितव्यम् । तदिदानीं तस्योत्पत्तिकारणचिन्तायां
क्रियाया वंशदलविभागमात्रोपजननचरितार्थत्वातन्निर्माय विभागान्तरनिर्माणे विरम्य व्यापारासंवेदनावश्यं वंशविभाग एवं प्रत्यासन्नतया दलाकाशविभागारम्भकोऽभ्युपगमनीयः । एवमनभ्युपगमे कर्मनित्यत्व
प्रसंगात् । कारणाकारणविभागात्तु विभागः करकुडयविभागाकुड्य२० कलेवरविभागः । कलेवरकारणं हि करस्तदकारणं च कुडयं
तयोविभागादयं जायते । न ह्ययं शरीरक्रियाकार्यः । तदानीं शरीरस्य निष्क्रियत्वात् । नापि हस्तक्रियाकार्यः । व्याधिकारणस्य कर्मणो विभागहेतुत्वादर्शनात् । अतः कारणाकारणविभागस्तस्य कारणमिति
कल्प्यते । संयोगवदस्यपि मूर्तामूर्तानेकद्रव्यप्रदेशवादयो२५ (तित्वात् । येन ) ? वस्मयं विभागशब्दहेतुः । विभागहेतुत्वं
दर्शितम् । शब्दहेतुत्वं तु वंशे पाट्यमाने सति योऽयमाद्य:
"Aho Shrut Gyanam"