Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सू. ८ परिमाणसमवायेन स्वरूपेणासंकीर्णस्वभावतमा तदितरेतराभाववत्त्वेऽप्यसर्वगतत्वात् । ततो नेदमनुमानं साधु । अनुमानबावितपक्षत्वाच्च । तथा हि- कालः सर्वगतो न भवति व्योमान्यत्वे सति द्रव्यत्वात् । यदेवं तदेवम् । यथा पुद्गलद्रव्यम् । तथा चायं तस्मात्तयेति ।
एवं चनित्यनिरंशव्यापकरूपो यः पर्षकल्लि किल कालः । अटति स न घटाको तद्विररीतस्ततोऽस्तु बुधाः ॥ ६६३ ॥ आलोक्य स्वीकृतं कालक्रयममामित्सुकः । करोत्यकाण्ड एवात्र शास्यस्तत्क्षेपडम्बरम् ॥ ६६४ ॥
नातीतादिभेदभिन्नः कालः कोऽप्यस्ति यत्संबन्धादर्थानामतीतादित्वं स्यात् । स्वतः परतो वास्तवेदानुपपत्तेः । स्वतो हि कालस्वातीतादित्वेऽर्थानामपि स्वत एव तदस्तु । अलं काल कल्पनया । परतोऽप्यतीतादिकालान्तररामिसंबन्धादतीतादिक्रियामि संबन्धाद्वा । त
स्यातीतादित्वाभ्युपगमे प्रागुक्तदोषानुपङ्गः । अतः पौर्वापर्यादिनोत्पन्नेषु १५ पदार्थेषु पूर्वापरादिसंकेतसमुद्भतमनस्काराभोगनिबन्धनमतीतादिज्ञानमात्रमेवास्ति न पुनरतीतादित्वम् । तदुक्तम्
'विशिष्टसमयोद्भुतमनस्कारनिवन्धनम् । परापरादिविज्ञानं न कालानो दिशश्च तत् ॥१॥' अहो वाचाटतादोपादेष सौगतदुर्दुरः । एतेषां दोषसा गां दृष्टिगोचरतां गतः ॥ ६६५ ॥ तथा हि--- यदवादि ' नातीतादिभेदभिन्नः कालः कोऽप्यस्ति । इति । तत्र तस्यासत्त्वं प्रमाणबाधितमेव । कार्यत्वहेतोस्तत्स्वरूपानुमापकस्य सद्भावात् । तथा हि- कटकमुकुटादिवस्तूनां वर्तना बहि
१ तत्वसंग्रहे लो. ६२९१
"Aho Shrut Gyanam"

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284