Book Title: Setubandhmahakavyam Author(s): Pravarsen, Ramnath Tripathi Shastri Publisher: Krishnadas Academy VaranasiPage 21
________________ सेतुबन्धम् [प्रथम सत्तेत्यत्र तात्पर्यमिति भावः। एवं सति ब्रह्मणः स्थूलसूक्ष्मसकलसत्तात्मकत्वमेव सर्वात्मकत्वमिति स्थिते व्यक्ताव्यक्तत्वविरोधगन्धोऽपि नेत्याह-अज्ञातः परमार्थस्तत्त्वं यस्य तथाविधश्चासौ प्रकटश्चेति तथा। तथा चातीन्द्रियवर्गसत्तारूपत्वेनाप्रत्यक्षपरमार्थमप्यन्द्रिक घटपटादिसत्तारूपत्वेन प्रकटं प्रत्यक्षमित्यर्थः । यद्वा तत्त्वमस्यादिवाक्यजन्यब्रह्माकारवृत्तिरहितानां पूर्णानन्दरूपेण प्रत्यक्षपरमार्थमपि चैतन्यांशेन प्रकटमित्यर्थः। तद्वत्तिमतां तद्रूपेण प्रकटमिति वा । एवं पूर्ववद्विस्तृतत्वादीनामप्रसारितत्वादिभिर्विरोधस्य सत्त्वेऽप्यजन्यतया तत्तदर्थविशेषेण च परिहारश्चिन्तनीयः । 'श्लक्ष्णं दभ्रं कृशं तनु' तथा 'निम्नं गभीरं गम्भीरम्' इत्यमरः । गभीरं दुराकलनीयमिति केचित् । 'ओदवापयोः' इत्यवशब्दस्यौकारादेशेन 'अणो ण अ' इति । एवं च तुङ्गत्वविस्तृतत्वगभीरत्वश्लक्ष्णत्वप्रकटत्वैस्तत्तदर्थविशेषेणाकाशपृथिवीजलानिलतेजःस्वरूपोपस्थापकैस्तत्तद्रूपतया पञ्चभूतात्मक शरीरयोगित्वमप्यस्योक्तम् । तथा च भगवद्गीता---'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥' इति । प्रकृते कर्तव्यग्रन्थनाय को मानुषशरीरः श्रीरामावतार एवोक्त इति वस्तुनिर्देश: कृतः। तदुक्तं भरतेत'सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् । आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् ॥' इति संक्षेपः ।। ।। वयं तु-"मधुमथनपदश्लेषेणाग्रे वर्णनीययोः समुद्रसेत्वोर्नतिरूपमङ्गलमुखेन वस्तुनिर्देशमेव कटाक्षयति-तथा हि हे सखे ! मधुमथनं 'समुद्रं नम नमस्कुरु । मधुमथनं मधुजनकं मथनं यस्य तमिति मध्यमपदलोपी समास · । वारुण्याः समुद्रमथनादेवोत्पत्तरिति भावः । अथवा मधुना दानवेन चरणविक्षेपादिना मथनं यस्य तम् । तथा कीदृशम् । हतवधिकतुङ्गम् । हतं च तद्वधि वृद्धि शालि कं जलं कल्लोलरूपं भङ गुरत्वेन शश्वन्नाशवृद्धिशालित्वात्तेन तुङ्गमूर्ध्वाकाशव्यापकम् । पुनः कीदृशम् । अवशार्यविस्तृतम् । अपोऽश्नाति भक्षयतीत्यच्प्रत्ययेनावशो वडवानलः स एवारिः शत्रुस्तेनाविस्तृतमवृद्धिशीलम् । वेलानतिक्रामकत्वात् । अथवा अवसारितविस्तृतम् । अकारो विष्णुर्वकारो बरुणस्ताभ्यां सारितं सारीकृतमितरविलक्षणीकृतम् । तयोस्तत्राधिष्ठानात् । सारितमिति सारशब्दात् 'तत्करोति-' इति णिचि। विस्तृतमिति विभिः पक्षिभिः स्तृतं व्याप्तम् । जलपक्षिबहलत्वात् । अथवा अवसारिकविस्तृतम् । अकारवकारसारशब्दानां विष्णवरुगरत्नादिवाचकत्वात्तद्विशिष्टत्वेनावसारी चासौ कविस्तृतो जलपक्षिव्याप्तश्चेति तम् । यद्वा अपसारितविस्तकम् । अपसारित आकृष्टो विस्तः सुवर्णो यस्मात्तम् । तथा समुद्रस्य सुवर्णाद्याकरत्वेन बहुशस्तदाहरणात् । अ णो ग अ गहिरम् । च नो न १. समुद्रपक्षे छाया-'नम हतवधिकतुङ्गमवशार्यविस्तृतं च नो न च गभीरम् । अप्रलध्वपरिश्लक्ष्णमनाकपरमास्त्रप्रकटं मधुमथनम् ॥' Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 738