________________
सेतुबन्धम्
[प्रथम
सत्तेत्यत्र तात्पर्यमिति भावः। एवं सति ब्रह्मणः स्थूलसूक्ष्मसकलसत्तात्मकत्वमेव सर्वात्मकत्वमिति स्थिते व्यक्ताव्यक्तत्वविरोधगन्धोऽपि नेत्याह-अज्ञातः परमार्थस्तत्त्वं यस्य तथाविधश्चासौ प्रकटश्चेति तथा। तथा चातीन्द्रियवर्गसत्तारूपत्वेनाप्रत्यक्षपरमार्थमप्यन्द्रिक घटपटादिसत्तारूपत्वेन प्रकटं प्रत्यक्षमित्यर्थः । यद्वा तत्त्वमस्यादिवाक्यजन्यब्रह्माकारवृत्तिरहितानां पूर्णानन्दरूपेण प्रत्यक्षपरमार्थमपि चैतन्यांशेन प्रकटमित्यर्थः। तद्वत्तिमतां तद्रूपेण प्रकटमिति वा । एवं पूर्ववद्विस्तृतत्वादीनामप्रसारितत्वादिभिर्विरोधस्य सत्त्वेऽप्यजन्यतया तत्तदर्थविशेषेण च परिहारश्चिन्तनीयः । 'श्लक्ष्णं दभ्रं कृशं तनु' तथा 'निम्नं गभीरं गम्भीरम्' इत्यमरः । गभीरं दुराकलनीयमिति केचित् । 'ओदवापयोः' इत्यवशब्दस्यौकारादेशेन 'अणो ण अ' इति । एवं च तुङ्गत्वविस्तृतत्वगभीरत्वश्लक्ष्णत्वप्रकटत्वैस्तत्तदर्थविशेषेणाकाशपृथिवीजलानिलतेजःस्वरूपोपस्थापकैस्तत्तद्रूपतया पञ्चभूतात्मक शरीरयोगित्वमप्यस्योक्तम् । तथा च भगवद्गीता---'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥' इति । प्रकृते कर्तव्यग्रन्थनाय को मानुषशरीरः श्रीरामावतार एवोक्त इति वस्तुनिर्देश: कृतः। तदुक्तं भरतेत'सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् । आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् ॥' इति संक्षेपः ।। ।। वयं तु-"मधुमथनपदश्लेषेणाग्रे वर्णनीययोः समुद्रसेत्वोर्नतिरूपमङ्गलमुखेन वस्तुनिर्देशमेव कटाक्षयति-तथा हि हे सखे ! मधुमथनं 'समुद्रं नम नमस्कुरु । मधुमथनं मधुजनकं मथनं यस्य तमिति मध्यमपदलोपी समास · । वारुण्याः समुद्रमथनादेवोत्पत्तरिति भावः । अथवा मधुना दानवेन चरणविक्षेपादिना मथनं यस्य तम् । तथा कीदृशम् । हतवधिकतुङ्गम् । हतं च तद्वधि वृद्धि शालि कं जलं कल्लोलरूपं भङ गुरत्वेन शश्वन्नाशवृद्धिशालित्वात्तेन तुङ्गमूर्ध्वाकाशव्यापकम् । पुनः कीदृशम् । अवशार्यविस्तृतम् । अपोऽश्नाति भक्षयतीत्यच्प्रत्ययेनावशो वडवानलः स एवारिः शत्रुस्तेनाविस्तृतमवृद्धिशीलम् । वेलानतिक्रामकत्वात् । अथवा अवसारितविस्तृतम् । अकारो विष्णुर्वकारो बरुणस्ताभ्यां सारितं सारीकृतमितरविलक्षणीकृतम् । तयोस्तत्राधिष्ठानात् । सारितमिति सारशब्दात् 'तत्करोति-' इति णिचि। विस्तृतमिति विभिः पक्षिभिः स्तृतं व्याप्तम् । जलपक्षिबहलत्वात् । अथवा अवसारिकविस्तृतम् । अकारवकारसारशब्दानां विष्णवरुगरत्नादिवाचकत्वात्तद्विशिष्टत्वेनावसारी चासौ कविस्तृतो जलपक्षिव्याप्तश्चेति तम् । यद्वा अपसारितविस्तकम् । अपसारित आकृष्टो विस्तः सुवर्णो यस्मात्तम् । तथा समुद्रस्य सुवर्णाद्याकरत्वेन बहुशस्तदाहरणात् । अ णो ग अ गहिरम् । च नो न १. समुद्रपक्षे छाया-'नम हतवधिकतुङ्गमवशार्यविस्तृतं च नो न च गभीरम् ।
अप्रलध्वपरिश्लक्ष्णमनाकपरमास्त्रप्रकटं मधुमथनम् ॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org