________________
रामसेतुप्रदीप - विमलासमन्वितम्
व्याख्यानवसनमनघं दोषमषीम्लानमाचरन्ति खलाः । क्षालयति सपदि साधुः साधुसमाधानदुग्धेन ॥ उद्गिरति रसमुदारं दुर्जन दलितापि मामकी व्याख्या |
इक्षुलता माधुर्यं शतश श्छिन्नाधिकं धत्ते ॥ सेतौ दुर्गे यदि विचरितुं वर्तते वः समीहा
आश्वासः ]
दत्तं स्नेहं तदिह कवयो रामसेतुप्रदीपे । मोहध्वान्ते सपदि शमिते यद्गताभिः शिखाभिः
का वा भावानधिगमकथा का च भीः कण्टकेभ्यः ॥ राजाहमायुधविलासवशीकृतोऽहमित्यत्र मा कृतधियः कुरुतावहेलाम् । मद्गोत्र एव जगतीपतिरस्त्रशिक्षादक्षो मनीषिमुकुटं मनुराविरासीत् ॥
इह तावन्महाराज प्रवरसेननिमित्तं महाराजाधिराजविक्रमादित्येनाज्ञप्तो निखिलकविचक्रचूडामणिः कालिदासमहाशयः सेतुबन्धप्रबन्धं चिकीर्षु निविघ्न समाप्त्यर्थं रामचन्द्रात्मकमधुमथनरूपाभीष्ट देवतानमस्कारोपदेशमुखेन मङ्गलमाचरन्नाह - मह् प्रवदिश्रतुङ्ग अवसारिश्रवित्थमं प्रणोणप्रगहिरम् । अप्पलहुपरिसहं प्रणामपरमत्थपानडं महुमहणम् ||१||
[नमतार्वार्धततुङ्गमप्रसारितविस्तृतमनवनतगभीरम् । अप्रलघुकपरिश्लक्ष्णमज्ञातपरमार्थप्रकटं मधुमथनम् ॥ ]
[ ३
हे जनाः ! मधुमथनं विष्णुं नमत नमस्कुरुत । तथा चाहमपि तं प्रत्यस्मि प्रणत इत्याक्षेपलभ्यम् । मधु मथ्नातीति मधुमथनस्तमिति कर्तरि ल्युट् । तेन तथाविधदुष्ट दैतेयदमन हेतुनामुना विष्णुना सुदमा विघ्नवराको इति ध्वनितम्। कीदृशं तम् । अवधितश्चासौ तुङ्गश्चेत्यवर्धिततुङ्गस्तम् । अत्रावर्धितस्योर्ध्वदेशावच्छिन्नतारूपतुङ्गताया असम्भवेनाभासमानो विरोधः परमेश्वरस्याजन्यतयेतरकर्तृ कर्वाधितत्वाभावेन परिह्रियते । तथा च विरोधवदाभासते न तु विरोध इति विरोधाभासनामायमलङ्कारः । किं चैतन्मूला विभावनापि संभाव्यते । तदुक्तं दण्डिना --- ' प्रसिद्ध - हेतुव्यावृत्त्या यत्किञ्चित्कारणान्तरम् । यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ।।' तथा च तुङ्गत्वे कार्ये वर्धितत्वरूपप्रसिद्ध हेतु व्यावृत्त्या तत्स्वभावत्वं विभो - रवगम्यते । एवमन्यत्रापि विशेषणे । तथाहि पुनः कीदृशम् । अप्रसारितश्चासौ विस्तृतश्चेति तम् । एवमनवनतचासौ गभीरश्चेति तथाविधम् । तथा च तुङ्गत्वविस्तृतत्वगभीरत्वरूपविशेषणत्रयेणोर्ध्वमध्याधः सकलदेशव्यापकत्वमुक्तम् । नन्वीश्वरस्य व्यापकैकरूपत्वे 'ब्रह्मवेदं सर्वम्' इत्यादि प्रतिपन्नजगद्रूपत्वविरोध इत्यत आह - अप्रलघुको महांश्चासौ परिश्लक्ष्णः कृशश्चेति तथा । तथा च स्थूलघटाकाशा दिसूक्ष्मपरमाण्वादिसत्तारूपमित्यर्थः । तथा च श्रुतेरपि ब्रह्मसत्तैव सर्वेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org