SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ सेतुबन्धम् [प्रथम कलियुगमहिमापचीयमानश्रुतिसुरभिद्विजधर्मरक्षणाय । धृतसगुणतनुं तमप्रमेयं पुरुषमकब्बरशाहमानतोऽस्मि ।। अंशे रघोरुष्णकरस्य वंशे बभूव राजा कुलदेव एकः । श्रीमानसिंहप्रमुखा जयन्ति यदन्वये संप्रति कच्छवाहाः ।। सूनुस्तस्य विरोधिवारणमदाकूपारकालानलो जङ्घालो रणरङ्गभूमिषु बली यः क्षेमराजोऽभवत् । वीरो दीप्तयशःकदम्बतुलितक्षीरोदनीरोदर स्तस्याजायत पञ्चसायकरुचिर्माणिक्य रायः सुतः ।। एतस्यापि मुकुन्दवन्दनवलत्पुण्यो वदान्यो जग न्मान्यो मोकलरायभूपतिरभूदाक्रान्तभूपान्तरः । तस्मादप्यजनिष्ट बाहुजकुलक्षीराब्धिहीरायितो धीरारायमहीमहेन्द्रतिलको वीरावलीभिः स्तुतः ॥ नापारायनृपः कृपानिधिरभूदस्यापि सूनुर्महा नुद्दामप्रतिपक्षकुञ्जरघटासंघट्टकण्ठीरवः । एष प्रेदशेषशत्रुविजयव्यापारपारङ्गमं पुत्रं पातलरायमायतभुजादण्डोद्धरं लब्धवान् ॥ खानारायस्ततोऽभूदरिदहनधनः प्रौढनाराचधारा ___ पातासाराभिवर्षी समरभुवि लसत्कार्मुको गाढगर्जः । सूनुस्तेनारिसेनाम्बुधिकल शभवोऽलम्भि कन्दर्पकाय श्चन्दारायस्त्रिलोकीतलविशदयशोवीचिनीचीकृतेन्दुः ।। अभवदुदयराजः प्रौढभूभृत्समाजप्रथितगुणगरिष्ठस्तत्सुतो धर्मनिष्ठः । समरभुवि न' के वा निजिता येन देवाधिपतिपुरपुरंध्रीगीतदोविक्रमेण ।। दिनेशभक्त्या जगति प्रकाशस्ततः सुतोऽजायत रामदासः । आसेवते जिष्णुमिव क्षितीन्द्रं यः सर्वभावेन जलालदीन्द्रम् ॥ धीराणां काव्यचर्चाचतुरिमविधये विक्रमादित्यवाचा । यं चक्र कालिदासः कविकुमुदविधुः सेतुनामप्रबन्धम् । तयाख्या सौष्ठवार्थं परिषदि कुरुते रामदासः स एव ग्रन्थं जल्लालदीन्द्रक्षितिपतिवचसा रामसेतुप्रदीपम् ।। इह सविधे साधूनां भविता न कदापि दुर्जनप्रसरः । गरुडोद्गारसमीपे न भवति गरलोद्गमः क्वापि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy