________________
॥ श्रीः ॥ महाकविश्रीप्रवरसेनमहीपतिप्रणोतं
( दशमुखवधापरनामकं )
सतबन्धम 'रामसेतुप्रदीपा'ख्यसंस्कृतव्याख्यासमन्वित
"विमला'ख्यहिन्दीटीकया संवलितम्
प्रथम आश्वासः
असितमहसि सेतौ पट्टिकायामुदञ्चत्तटयुगधनमुक्तावर्णपङ् क्तिद्वयेन । अलिखदिव कठिन्या यत्प्रशस्ति समुद्रः स जयति रघुवंशग्रामणी रामचन्द्रः ।। गङ्गाम्बुस्तिमिताघ्रिमौलि दिनकृत्कन्याम्बुकम्बुप्रभं
__ तत्त्वां पातु समुद्रजागिरिजयोरानन्दबीजं 'महः । नाभीपङ्कजनालमूलमिलनात्सव्यांसकूलस्थितो
यत्र स्थूलमृणालवल्लितुलनामालम्बते भोगिराट् ।। अद्वैतदन्तकल्पितक रेणुमयवामभागमिभवदनम् ।
पितुरर्धनागरीकं वपुरनुकुर्वन्तमिव कलये ॥ आ मेरोरा समुद्रादवति वसुमतीं यः प्रतापेन ताव
दुरे गाः पाति मृत्योरपि करममुचत्तीर्थवाणिज्यवृत्त्योः । अप्यश्रौषीत्पुराणं जपति च दिनकृन्नाम योगं विधत्ते
गङ्गाम्भोभिन्नमम्भो न च पिबति जयत्येष जल्लालदीन्द्रः ।। अनं वङ्गं कलिङ्ग सिलहट-तिपुरा-२कामता-कामरूपा
नान्धं कार्णाट-लाट-द्रविड-मरहठ-द्वारका-चोल-पाण्डयान् । भोटान्तं मारुवारोत्कल-मलय-खुरासान-गन्धार-जम्बू
काशी-काश्मीर-ठट्ठा-बलख-बदकशा-काबिलान्यः प्रशास्ति ॥ १. हरिहरात्मकम् । २. 'कामता' इति चित्रकूटाचलस्य नामान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org