________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[५
च गभीरम् । अकारश्चकारविकारः समुच्चये। नो न च गभीरमादुक्तिविशेषेणातिगभीरम् । निषेधद्व यस्य प्रकृतार्थगमकत्वात् । एवमप्र लघ्वपरिश्लक्ष्णं कर्मधारयेण । यत एवाप्रलघुमतिमहान्तमत एवापरिश्लक्ष्णमकृशम् । एवमनाक परमास्त्रप्रकटम् । अनाके मर्त्य एव परमास्त्रेण रामस्याग्नेयशरेण प्रकटमध्यक्षीभूतमिति समुद्रपक्ष: ।।
सेतुपक्षे तु हे जना: ! मधु जलं मथ्नात्यवष्टभ्नातीति मधुमथन: सेतुस्तं नमत । विशेषणमहिम्ना रामसेतो भात्तत्सम्बन्धेन च तस्य नमस्यत्वम् । 'मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसेऽपि च' इति विश्वः । कीदृशम् । अवधिततुङ्गमखण्डितोच्चम् । अतिसाग्रमित्यर्थः । चौरादिकस्य वर्धधातोः खण्डनार्थत्वात् । एवमवशार्यविस्तृतम् । अवशोऽनधीनोऽरिः शत्रुर्द शकण्ठो यस्य तादगकारो विष्णुरूपो रामस्तेन विस्तृतं घटितम् । अथवा असारितापम् । प्राकृते पूर्वनिपातानियमादसारि ता अशबलीकृता आपो येन तं प्रतिरुद्ध जलमथ च विस्तृतम् । पर्वतपक्षिव्याप्तमित्यर्थः । अणोणअगहिरम् । अशब्दस्य निषेधवाचक त्वपक्षे अनोनिषेधद्वयेनोक्तिविशेषेण नगगभीरं नगैः पर्वतैर्गभीरम् । कुजादिबाहुल्येन दुराकलनीयमित्यर्थः । पर्वतमयत्वात् । निषेधावाचकत्वेऽकारश्चकारविकार एव । नो इति शिरश्चालनेन पूर्ववदेव नगगभीरमिति बोध्यम् । एवमप्रलघुकपरिश्लक्ष्णम् । अप्रलघुनि महति के समुद्र जले परिश्लक्ष्णं कृशम् । सूत्रायमाणत्वात् । तथा अज्ञातपरमस्तप्रकटम् । अज्ञातं परं परदिग्वति यस्मादेतादृशं यन्मस्तं मस्तकं तेन प्रकटं दूरत एव दृश्यम् ।" इति ब्रूमः । स्कन्धक नाम च्छन्दः । तदुक्तम्---'च उमत्ता' अठगणा पुव्वद्धे उत्तरद्ध होइ सरूआ । सो खन्ध आ विआण हु पिङ्गल पभणेइ मुद्धि बहुसंभेआ' ॥१॥
* विमला * भक्तभ्रमरसंसेव्यं, हेरम्बचरणाम्बुजम् । विघ्नराशिविनाशाय, भूयो भूयो नमाम्यहम् ।। वन्देऽहं पितरं भक्त्या , 'महादेवं' सदाशयम् । मातरं 'सरयं' चैव, श्रद्धयां दैवतं परम् ॥
१. 'चतुर्मात्रा अष्टगणा: पूर्वार्धे भवन्ति सरूपाः ।
तं स्कन्धकं विजानीत पिङ्गलः प्रभणति मुग्धे बहसंभेदम् ॥' इति च्छाया, 'स्कन्धकमपि तत्कथितं यत्र चतुष्कलगणाष्टकेनाधू स्यात् ।
तत्तुल्यमग्रिमदलं भवति चतुःषष्टिमात्रिकशरीरमिदम् ।।' एतदपि स्कन्धकलक्षणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org