Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पिधान
चैत्यवन्दन
विधिः ।
॥ अथ चैत्यवन्दनविधिः॥ ततः क्षमाश्रमणपूर्व गुरु-शिष्यौ द्वावपि क्रमेण भणत:-इच्छाकारेण संदिसह भगवन् । चैत्यवन्दनं करेमि; 'इन्छ इत्युक्त्वा गुरुश्चैत्यवन्दनं करोति ।
"आविमं पृथिवीनाथ,-मादिमं निष्परिग्रहम् । आदिमं तीर्थनार्थ च, ऋषभस्वामिनं स्तुमः ॥ १॥ सुवर्णवर्ण गजराजगामिनं, प्रलम्बबाहुं सुविशाललोचनम् । नरामरेन्द्रः स्तुतपादपङ्कजं, नमामि भक्त्या ऋषभं जिनोत्तमम् ॥ २ ॥ अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिताः, आचार्या जिनशासनोन्नतिकरा: पूज्या उपाध्यायकाः । श्रीसिद्धान्तमुपाठका मुनिवरा रत्नत्रयाराधकाः, पञ्चैते परमेष्टिनः प्रतिदिनं कुर्वन्तु बो मङ्गलम् ।। ३ ॥"
ततः किंचि०' 'नमुत्थुणं.' 'अरिहंतचेइयाण.' 'अन्नत्थ ऊससिएणं०'इत्यायुक्त्वा कायोत्सर्गे नमस्कारमेकं चिन्तयित्वा * "नमोअरिहंताणं" इति पठित्वा तं पारयित्वा"नमोऽहत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः इत्युक्त्वा एकांस्तुतिं पठति, यथा
"यदङ्गिनमनादेव, देहिनः सन्ति सुस्थिताः । तस्मै नमोऽस्तु वीराय, सर्वविघ्नविधातिने ।। १॥" । ततः 'लोगस्स.' 'सव्यलोए.' 'बंदण.' 'अन्नत्य.' इत्यायक्त्वा द्वितीयां स्तुतिं पठति
"सुरपतिनतचरणयुगा,-साभेयजिनादिजिनपतीन्नौमि । यद्वचनपालनपरा, जलाञ्जलिं ददतु दुःखेभ्यः ।। २ ॥" ततः 'पुक्खरवरदी०' 'मुअस्स भगवओ०' 'बंदण०' 'अन्नत्य०' इत्याधुक्त्वा तृतीयां स्तुतिं पठति
FREERA

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78