Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 164
________________ प्रशमरतिः हारि, वृत्तिः ॥ ४१ ॥ Jain Education | स्यान्नास्ति च अवक्तव्यश्च ३ स्यादस्ति च नास्ति चावक्तव्यश्चेति ४, अतोऽन्येन प्रकारेणान्यथा, अर्पितं विशेषितमुपन्यस्तं (नीतं ), अनर्पितमविशेषितमनुपनीतं चेत्यस्माद्विशेषात् ( ग्रंथ १२०० ) सप्त विकल्पा भवन्ति ॥ २०४ ॥ उत्पादादित्रितयभावनामाह sa स्मिन्नाभूत् साम्प्रतकाले च दृश्यते तत्र । तेनोत्पादस्तस्य विगमस्तु तस्माद्विपर्यासः ॥ २०५ ॥ साम्प्रतकाले चानागते च यो यस्य भवति सम्बन्धी । तेनाविगमस्तस्येति स नित्यस्तेन भावेन ॥ २०६ ॥ योऽर्थो घटादिस्तस्मिन्- कुशूलादौ नाभूत् - नासीत्, सुप्रसिद्धं चैतत् कुशूलाद्यवस्थायां घटाद्यभावः, सांप्रतकाले चवर्तमानकाले च दृश्यते - उपलभ्यते तत्र - कुशूलादौ दण्डचक्रचीवरादिसामग्र्यां वा तेन - घटरूपेण तस्य - कुशूला देरुत्पादःप्रादुर्भावस्तस्य- कुशूलस्य, ततो घटादिः, विगमो - विनाशस्तस्मात् - कुशूलाद्यो विपर्यासो घटः स एव तस्य विनाशो, य एव च तस्य विनाशः स एव तस्योत्पादः, तुलादण्डसमकालभाव्युन्नत्यवनतिवत् । न हि जैनानां निरूपो विनाशोऽस्ति, नच प्राक्तनरूपानुपमर्दे समुत्पादोऽस्तीति ॥ २०५ ॥ साम्प्रतकाले - वर्तमानकाले अनागते च भाविनि चकाराद्भूते - अतीते घटकुशूलकपालेषु च यो मृदादिर्यस्य घटस्य कुशूलस्य कपालादीनां च भवति सम्बन्धी - एतस्यैते एतेषां चैतदिति तेन रूपेण मृदादिना अन्वयिना अविगमः - अविनाशस्तस्येति - मृद्रूपस्य घटकुशूलकपालादेश्चेति स - मृदादिर्घटादि वा नित्योध्रुवस्तेन भावेनेति ॥ २०६ ॥ For Private & Personal Use Only द्रव्यात्मादि ॥ ४१ ॥ wainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240