Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्राप्तो-लब्धं कल्पेषु-सौधर्मादिदेवलोकेष्वधिपतित्वं वा सामानिकत्वमन्यद्वा सामान्यदेवत्वं विमानवासविशिष्टमवाप्य तत्र स्थानानुरूपं सुखम् ॥ ३०७॥ __ आर्यदेशजातिकुलविभवरूपसौभाग्यादिकां सम्यक्त्वादिगुणसम्पदं च ॥ ३०८॥ मनुष्येषु ॥३०९॥
कविरात्मन औद्धत्यं परिहरति-धर्मकथिकां-द्विविधधर्मप्रतिपादिकामिमां प्रशमरति, रत्नाकरादिव जीर्णकपर्दिकामिव, प्रशमप्रीत्या ॥ ३१॥ सर्वात्मनाऽशेषप्रकारैः। सततमनवरतं, यत्नः कार्यः॥३११॥
इह प्रशमरतिप्रकरणेऽसमञ्जसं-असङ्गतं, छन्दो-रचनाविशेषः, शब्दः-संस्कृतादिभेदभिन्नः, समय:-सिद्धान्तस्तस्याऽर्थोऽभिधेयं । मर्षयितव्यं-क्षन्तव्यम् ॥ ३१२॥
ऐहिकामुष्मिकसुखमूलकारणं । सर्वभावानां विनिश्चयो-निर्णयस्तस्य प्रकटनकरं । क्षान्त्यादिसर्वगुणसिद्धिसाधने धनमिव जयमनुभवति ॥ ३१३॥
इति श्रेष्टि-देवचंद-लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ८८
प्र.र.१४
यत्र यत्र ग्रन्थेऽस्मिन् अवचूर्णी नास्ति प्रणीता तत्र तत्र x x x एतानि चिह्नानि विन्यस्तानि तथा बोधार्थमिति ज्ञेयम् ।
Jain Education in
For Private Personal Use Only
belibrary.org

Page Navigation
1 ... 237 238 239 240