Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रशमरतिः
अवचूर्णी।
MERCANUARCk
॥७४॥
SAGROSSIOSRUSRUSSOOST
समो-रागद्वेषविकलस्तस्याऽऽयो-लाभस्तत्र भवं सामायिक प्राक्तनपर्यायच्छेद उत्तरपर्यायस्थापनं। परिहरणं-परिहारस्तेन विशुद्धं । सूक्ष्मो-ऽत्यन्तकिट्टीकृतः सम्परायो-लोभकषायः, सूक्ष्मसम्परायगुणस्थानवर्तिनः। अकषायं यथाख्यातम् ॥२२८॥ ___ अनेकैबहुप्रकारैरनुयोगैः किं कतिविधं कस्येत्यादिभिनय गमादिभिः, प्रमाणैः प्रत्यक्षादिभिः, समनुगम्यं-ज्ञेयम् ॥२२९॥
एकतरस्याः सम्यग्दर्शनादिसम्पदोऽभावेऽपि, अपिः पूरणे, मोक्षमार्गोऽपि-मुक्तिपापकोऽपि न सिद्धिकरः, त्रिफलाव्यपदेशवत् ॥ २३०॥ चारित्रं दर्शनज्ञानलामे । चारित्रलाभे ॥२३१॥
धर्मो दशविधः । आवश्यकानि-प्रतिक्रमणालोचनादीनि ॥२३२ ॥ सम्यक्त्वादीनां जघन्याचाराधनानाम् ॥ २३३ ॥
सम्यक्त्वादिसम्पदा तत्परेण-व्यग्रेण, तेष्वेव-सम्यक्त्वादिषु । तत्परेषु साधुषु, जिनेषु, भक्तिरान्तरा-प्रीतिः । उपग्रहस्तदुचितानपानशयनासनादिप्रदानरूपः । समाधिः-स्वास्थ्यं स्वपरयोः । एतेषां करणेन ॥ २३४ ॥
यत्नमेव प्रपञ्चयति-गुणानां ज्ञानादीनां । परतप्तिषु । अधृष्यस्याऽधर्षणीयस्य, मत्सरश्चित्तस्थ एव कोपः॥ २३५ ॥ प्रशम एव निराबाधसुखं सदाचारे रतस्य साधोरिति, तस्य किं साधर्म्य ? सुरासुरनरलोकेऽस्मिन् ॥ २३६॥ न केनाऽपि व्ययं प्रापितं-बाधितम् ॥ २३७॥ विनिवृत्ता परस्मिन्नाशा येषाम् ॥ २३८ ॥ शब्दादीनां विषयाणां परिणाममन्यथाभवनरूपं, दुःखहेतुमेव च सम्प्रधार्य। संसारे दुःखान्येव रागद्वेषात्मकानि ॥२३९॥ प्रदोष-प्रद्वेषं । अव्यथितोऽपीडितः॥२४॥ मौनी निरवद्यभाषी, एकाकी निष्कलहोवा, वशे स्थापितानि, परीषहाः सम्यक् सह्यन्ते, कषायाणामुदयो निरुद्धः॥२४॥
॥७४॥ ॥
Jain Education
a
l
For Private & Personal Use Only
Pinelibrary.org

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240