Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 235
________________ जघन्ययोगौ क्रमेण वागुच्छासरूपौ, ताभ्यामसंख्येयगुणहीनौ निरुणद्धि, सूक्ष्मकाययोगनिरोधे तु पनक-उल्लिजीवस्तस्मादधोऽसंख्यगुणहीनः पर्याप्तिद्वयरहितो भवति ॥ २७९ ॥ ___ सूक्ष्मकाययोगनिरोधकाले तृतीयशुक्लध्यानी भवतीति तन्निरूपयन्नाह-सूक्ष्मक्रियमप्रतिपातिकं ध्यायति, तदैव च शैलेशी करोति-स्वदेहविभागहीनात्मप्रदेशाधनीभवति । ततः परेण-शेषकालेन निरुद्धसकलयोगो व्युपरतसकलक्रियमनिवृत्ति-18 ध्यानं ध्यायन चरमकर्मीशं क्षपयति ॥ २८॥ चरमभवेऽन्तिममनुष्यजन्मनि संस्थानं देहोच्छायप्रमाणं यस्य सिद्धिमुपजिगमिषोस्तस्मात्रिभागहीन-तृतीयांशेन न्यूनं | संस्थानावगाहनापरिमाणं करोति ॥ २८१॥ __ स भगवान् केवली तस्यां शैलेश्यवस्थायां मनोवागुच्छासकाययोगक्रियार्थविनिवृत्तो-निरुद्धसकलयोगक्रियोऽपरिमित|निजेरो-बहुकर्मक्षपणयुक्त आत्मा यस्य, स संसारमहासमुद्रादुत्तीर्णः-पारप्राप्त एव तिष्ठति ॥ २८२॥ | ईषद्रस्वानां-मनाग्यस्वाक्षराणां पञ्चको 'अइउऋल' रूपस्तस्योद्गीरणं-प्रोच्चारणं, तावन्मात्रायां परिमाणतस्तत्तुल्यकालीयां शैलेशीमेति-गच्छति । संयमवीर्याप्तबल:-सर्वसंवरवीर्येण प्राप्तवलो, विगताऽपगता लेश्या भावरूपा यस्य सः ॥ २८३ ॥ | पूर्वरचितं-प्रथममेव समुद्धातावसरेऽवस्थापितं प्रकृतिशेष गोत्रवेद्यायुषो यदवशिष्टमास्ते, तत्प्रकृतिशेष संयमश्रेण्यामन्तमुहूर्तगतसमयप्रमाणायां संस्थाप्य समये समये क्षपयन्नसंख्यातगुणमुत्तरोत्तरेषु समयेषु ॥ २८४ ॥ चरमकर्मीशानुत्तरप्रकृतीं-स्त्रयोदशसंख्याः । विनिहत्याऽपनीय । युगपदेककालम् ॥ २८५ ॥ NAGARWALA Jain Education indain For Private Personal use only Dinelibrary.org

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240