Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रशमरतिः
अवचूणीं।
॥७७॥
सर्वगतियोग्यसंसारमूलहेतूनि । सर्वत्र भवनशीलानि । औदारिकादिशरीराणां यत्स्वरूपं, तेन सर्वेण रहितः ॥ २८६ ॥ अवक्रश्रेणिगति, अविद्यमानस्पर्शा । अवक्रगत्या, अप्रतिहतगतिः ॥ २८७ ॥ ज्ञानोपयोगेन वर्तमानः, ततः परमुपयोगद्वयं सिद्धानामिति ॥ २८८ ॥
सादिक-यस्मिन्सिद्धोऽजनि तमादिं कृत्वा, अनन्तं पुनः क्षयाभावात्, व्याबाधारहितं । केवलान्यद्वितीयानि क्षायिकानि, मुक्तः कृत्स्नकर्मक्षयात् ॥ २८९॥
मुक्तः सन्न] जीवोऽभावोऽसद्रूपः, स्वलक्षणस्य ज्ञानदर्शनादेर्भावात् , स्वतोऽर्थसिद्धेः। यद्यपि छाद्मस्थिकोपयोगात्के वल्योपयोगान्तरमुदेति, तथाप्युपयोगसाम्यान्न भिद्यते, ज्ञानस्वभावत्वात् , भावान्तरसंक्रान्तेः, जलस्थितलवणस्य रूपतोऽदर्शनेऽपि रसत उपलब्धिवत् ॥ २९० ॥ । इहैव-संसारे स न तिष्ठति, अनिबन्धान्मनुजादिभवकारणानामत्यन्तलयात्, अनाश्रयात् , मुक्तस्य हि मनुजभवो ना
श्रयः, किन्तु सिद्धिरेव, संसारव्यापाराभावाच्छरीरादिकारणाभावाच्च ॥ २९१॥ | अधो न याति, गुरुत्वाभावात् , अशक्योऽयं भावो-यत्कर्ममुक्तोऽधो याति । लोकान्तादपि परतो न याति मुक्तः, 51 उपग्रहकारिधर्मद्रव्याभावात् , प्लवकस्तारको यानपात्रं यथा स्थले न याति, उपग्रहाभावात् ॥ २९२॥ __ योगो मनःप्रभृतिकः, प्रयोग आत्मनः क्रिया, तयोरभावान्न तिर्यग्गतिरस्ति, तथा सिद्धस्य-मुक्तस्योर्ध्वमेव गतिर्भवति, कियद्यावत्?, आलोकान्तम् ॥ २९३ ॥
-CARE
का॥७७॥
Jain Educat
i onal
For Private
Personel Use Only
Www.jainelibrary.org

Page Navigation
1 ... 234 235 236 237 238 239 240