Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रशमरतिः
अवचूर्णी।
॥७५॥
नित्योद्विग्नस्य-संसारोपरि नित्यमुद्वेगं कुर्वतो जितकोपाहारस्य । कलिमलं-पापं । जितसर्वलोभस्य ॥ २५१॥ विविक्तौ-पृथग्भूतौ बन्धुजनशत्रुवर्गों यस्य, समस्तुल्यो वासीचन्दनाभ्यां कल्पनप्रदेहादिः-छेदनानुलेपनादिर्यस्य स तथा, एवंविधो देहो यस्य ॥ २५२ ॥
कृतात्माभिरतेः, [यतः स]स्वकार्य एव व्याप्रियते, न बहिः प्रीतिं विदधाति । दृढमप्रमत्तस्य ॥ २५३ ॥ चित्तनैर्मल्यात् । प्रमाददण्डयोगैर्विशुद्ध्यमानस्य-विमुच्यमानस्य । अग्र्यां-प्रधानभूताम् ॥ २५४ ॥
प्राक्तनकर्मक्षयकरणदक्षं, अथाऽनन्तरं घातिकर्मणां चतुर्णा क्षयैकदेशोऽसमस्तक्षयस्तदुत्थं, ऋद्धय आमर्पोषध्यादयः, प्रवेकाअवधिज्ञानादिविशेषाः,विभवास्तुणाग्रादपि कनकवृष्टिकर्तृत्वादयस्ते विद्यन्ते यत्र तत्तथा,जातं भद्रं-कल्याणमस्य तस्य ॥२५५॥
सुखविभूतिरसामृतकल्पाहारेष्वगुरुगौरवरहिताः, अकृतादर इत्यर्थः । लब्धिमाकाशगमनादिकां दुष्पापां कापुरुषैः। तस्यामामोषध्यादिविभूती प्राप्तायामपि ॥ २५६॥ सर्वसुरवरर्द्धिश्चतुर्विधेन्द्रविभूतिः॥२५७ ॥ तज्जयं-तपोऽनुष्ठानजन्यातुल्यविभूतिबन्धाभिभवं । यथा तीर्थकरस्तत्स्थानकं प्राप्तस्तस्थाऽसावपि भवति ॥ २५८॥ पृथक्त्ववितर्कसविचारं १, एकत्ववितर्कमविचारं २। कर्माष्टकमध्ये स्वामिनम् ॥ २५९ ॥
अथ क्षपकश्रेणिमारोहन मोहमुन्मूलयन् प्रथममनन्तानुबन्धिना-यावज्जीवावस्थायिकषायाणां, ततो मिथ्यात्वमोह एव गहनं, ततोऽपि मिश्र, सम्यक्त्वं च मिथ्यात्वं च सम्यमिथ्यात्वं, एतावता मिश्रम् ॥ २६०॥
सम्यक्त्वं-क्षायोपशमिकपुञ्जरूपं, ततो द्वितीयतृतीयकषायान् ॥ २६१॥
॥ ७५ ॥
Jain Education
For Private Personel Use Only
Clainelibrary.org

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240