SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः अवचूर्णी। ॥७५॥ नित्योद्विग्नस्य-संसारोपरि नित्यमुद्वेगं कुर्वतो जितकोपाहारस्य । कलिमलं-पापं । जितसर्वलोभस्य ॥ २५१॥ विविक्तौ-पृथग्भूतौ बन्धुजनशत्रुवर्गों यस्य, समस्तुल्यो वासीचन्दनाभ्यां कल्पनप्रदेहादिः-छेदनानुलेपनादिर्यस्य स तथा, एवंविधो देहो यस्य ॥ २५२ ॥ कृतात्माभिरतेः, [यतः स]स्वकार्य एव व्याप्रियते, न बहिः प्रीतिं विदधाति । दृढमप्रमत्तस्य ॥ २५३ ॥ चित्तनैर्मल्यात् । प्रमाददण्डयोगैर्विशुद्ध्यमानस्य-विमुच्यमानस्य । अग्र्यां-प्रधानभूताम् ॥ २५४ ॥ प्राक्तनकर्मक्षयकरणदक्षं, अथाऽनन्तरं घातिकर्मणां चतुर्णा क्षयैकदेशोऽसमस्तक्षयस्तदुत्थं, ऋद्धय आमर्पोषध्यादयः, प्रवेकाअवधिज्ञानादिविशेषाः,विभवास्तुणाग्रादपि कनकवृष्टिकर्तृत्वादयस्ते विद्यन्ते यत्र तत्तथा,जातं भद्रं-कल्याणमस्य तस्य ॥२५५॥ सुखविभूतिरसामृतकल्पाहारेष्वगुरुगौरवरहिताः, अकृतादर इत्यर्थः । लब्धिमाकाशगमनादिकां दुष्पापां कापुरुषैः। तस्यामामोषध्यादिविभूती प्राप्तायामपि ॥ २५६॥ सर्वसुरवरर्द्धिश्चतुर्विधेन्द्रविभूतिः॥२५७ ॥ तज्जयं-तपोऽनुष्ठानजन्यातुल्यविभूतिबन्धाभिभवं । यथा तीर्थकरस्तत्स्थानकं प्राप्तस्तस्थाऽसावपि भवति ॥ २५८॥ पृथक्त्ववितर्कसविचारं १, एकत्ववितर्कमविचारं २। कर्माष्टकमध्ये स्वामिनम् ॥ २५९ ॥ अथ क्षपकश्रेणिमारोहन मोहमुन्मूलयन् प्रथममनन्तानुबन्धिना-यावज्जीवावस्थायिकषायाणां, ततो मिथ्यात्वमोह एव गहनं, ततोऽपि मिश्र, सम्यक्त्वं च मिथ्यात्वं च सम्यमिथ्यात्वं, एतावता मिश्रम् ॥ २६०॥ सम्यक्त्वं-क्षायोपशमिकपुञ्जरूपं, ततो द्वितीयतृतीयकषायान् ॥ २६१॥ ॥ ७५ ॥ Jain Education For Private Personel Use Only Clainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy