________________
हास्यरतीत्याधुन्मू(लिते)लनेऽष्टाविंशतिविधेऽपि मोहे वीतरागो भवति ॥ २६२ ॥
सकल उद्धातितो-ध्वस्तो मोहो येन सः, अनुपलक्ष्यो-नाऽद्यापि स्वविषयां प्रतीतिमुत्पादयितुं प्रत्यलः, यथा राहुणा पूर्णचन्द्रो मुक्तोऽपि कियन्तं कालमनुपलक्ष्यो भवति, तथा क्षीणमोह इति ॥ २६३ ॥ यथा ज्वालिताग्निः काष्ठादिः, एवं ध्यानाग्निः । अनन्तगुणं तेजो यस्य । तपोऽनशनादि, त एव हविघुतम् ॥ २६४ ॥ अनुप्राप्तः-परिगतः। जीवानां सर्वेषां कर्मभाजां । दहेद्यदि संक्रमः स्यात् ॥ २६५ ॥ संक्रमः-सामस्त्येन कर्मप्रवेशः, अथ विभाग-एकदेशोऽपि नाऽऽकामति ॥ २६६ ॥ शिरउद्गताया[सूच्याः]नाशात्क्षयाद्वृक्षस्य ध्रुवो निश्चयेन भवति ॥ २६७ ॥ क्षपितकषायत्वादन्तर्मुहूर्त्तकालं यावद्भूत्वा-स्थित्वा, युगपदेककालं ज्ञानावरण ५ दर्शनावरण ४ अन्तरायाणां ५ क्षयमाप्य ॥२६८॥
शाश्वतमनवरतभवनशीलत्वात् , अनन्तं क्षयाभावात् , केनाऽपि तस्याऽतिशयितुमशक्यत्वात् , अनुपममपगतोपमानत्वात् , अनुत्तरमविद्यमानोत्तरत्वात् , निरवशेष परिपूर्णत्वेनोत्पत्तेः, सम्पूर्ण सकलज्ञेयग्राहित्वात् , अप्रतिहतं सदाऽपि प्रतिघातकाभावात् ॥ २६९॥
कात्सर्ये-परिपूर्णे लोकालोके कृत्स्नवस्तुपरिच्छेदित्वात् । गुणपर्यायवद्रव्यं, सहभाविनो गुणाः क्रमभाविनः पर्यायाः, सर्वार्थ:-सर्वप्रकारैः॥ २७० ॥
६
in duetan
bal
For Private & Personal Use Only
nelibrary