Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 219
________________ देशोऽसाधुपरिचितक्षेत्रं, कालो दुर्भिक्षादिः, पुरुषःप्रवजितराजादिः, अवस्था मान्द्यादिका, एतेषामर्थेऽकल्प्यमपि कल्प्यं, | उपयोगशुद्धिपरिणामान्नैवैकान्तेन कल्प्यते कल्प्यं, नैवैकान्तेन न कल्प्यतेऽकल्प्यम् ॥ १४६ ॥ यतिना-साधुना तदेव चिन्तनीयं भाषणीयं कायेन कर्तव्यं, यदात्मनः परेषामुभयेषां बाधकं न भवत्यतीतादिसर्वकाले ॥१४७॥ सर्वेषु शब्दादिसर्वेन्द्रियार्थेषु विषयेषु, इन्द्रियसङ्गतेषु-श्रोत्रादीन्द्रियगणस्य गोचरतां प्राप्तेषु । वैराग्यमार्गः-सज्ज्ञान| क्रियासेवन, तस्मिन्नन्तरायकारिषु परिसंख्यानं-इतरत्वनिःसारत्वाहितकारित्वपरिज्ञानं कार्य-ध्येयं, केन ? परं-कामार्थधर्मेषु प्रधानं नियतं शाश्वतं कार्य-मोक्षप्राप्तिलक्षणमिच्छताऽभिलाषिणा ॥१४८॥ भावयितव्यमहर्निशं चिन्तनीयमभ्यसनीयं, किं तत् ?, अनित्यत्वं-संसारे सर्वस्थानानामशाश्वतत्वं, अशरणत्वं-जन्मजरामरणाभिभूतस्य नाऽस्ति किञ्चिच्छरणं, एकत्वं-एक एवाऽहं, अन्यत्वं-स्वजनधनदेहादिकेभ्योऽन्य एवाऽहं, अशुचित्वंआद्युत्तरकारणाशुचितामयस्य शरीरस्याऽशुचिभावादशुचित्वं, संसार इति माता भूत्वा भगिनीत्यादिभवभावना, आश्रवद्वाराणि विवृतानि कर्माश्रवः, आश्रवद्वारपिधानं संवरः॥ १४९ ॥ ___ कर्मणां क्षपणोपायो निर्जरणं, लोकायामादिलोकविस्तरः, शोभनोऽयं धर्मस्तत्त्वतः-परमार्थतश्चिन्ता धर्मस्वाख्याततत्त्वचिन्ताः , बोधेः सुदुर्लभत्वं चेति प्रकटम् ॥ १५०॥ इष्टजनसम्प्रयोगश्चर्द्धिसम्पच्च, विषयसुखसम्पच्च, सम्पच्छब्दः प्रत्येक योज्यः॥ १५१ ॥ अभिद्रुतेऽभिभूते ॥ १५२ ॥ For Private Personal Use Only Owainelibrary.org Jain Education

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240