Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 222
________________ प्रशमरतिः ॥७०॥ SRIGANGACASRIRANGALOG द्रव्यं सचेतनादि, शैक्षादि सचेतनादि-"अट्ठारस पुरिसेसु, वीसं इत्थीसु दस नपुंसेसु । पचावणा अणरिहा, अणहा पुण इत्थिआ चेव ॥ त्ति ('अहवा विगलंगरूवाई)॥१॥"इति[पाठान्तरम् ] । उपकरोति ज्ञानादीनां, तदप्युद्मादिशुद्ध र शुचि, तथा भक्तपानादि, तदुद्गमादिदोषरहितं शुचि, अन्यदशुचि । देहशुचि पुरीषाद्युत्सर्गपूर्वकं निर्लेपं निर्गन्धं देह| मधिकृत्य प्रवृत्तं । भावशौचं निर्लोभताविधायि कार्य-कर्तव्यम् ॥ १७१॥ आश्रवाः-प्राणातिपातादयः कर्मादानहेतवस्तेभ्यो विरतिकरणं । पञ्चेन्द्रियाणि स्पर्शनादीनि, तेषां निरोधः। कषायाः क्रोधादयश्चत्वारस्तेषामुदयनिरोधः। दण्डा मनोवाकायाख्याः, अभिद्रोहाभिमानेादिकरणं मनोदण्डः, हिम्रपरुषानृतादिभाषणं वाग्दण्डः, धावनवल्गनप्लवनादिरूपः कायदण्डः, एभ्यो निवृत्तिरेव संयमः सप्तदशभेदो भवति ॥ १७२॥ बान्धवाः-स्वजनाः, धनं-हिरण्यादि, पञ्चेन्द्रियविषयसुखं, एतेषां त्यागात् । भयमिहलोकादि सप्तविधं, विग्रहः-शरीरं, (तस्य)प्रतिकर्मणा त्यागात्साधुर्मुनिस्त्य तात्मा-परिहृतासंयमपरिणामोऽष्टविधग्रन्थविजयप्रवृत्तः, परिहताभिमानममत्वभावोऽरक्तद्विष्टस्त्यागी ॥ १७३ ॥ न विसंवादनं यथादृश्यवस्तुभाषणं, तेन योगः-सम्बन्धः, त्रिविधेन योगेनाजिह्मता-sकौटिल्यं, कायेनाऽन्यवेषधारितया ___ * दृश्यतेऽस्या आर्यायाश्चतुर्थ चरणं "इय अणला (अयोग्याः) आहिया सुत्ते" इत्येवंरूपमात्मप्रबोधादिषु । भावपुरीयप्रतिकृतौ तु ६ "स्त्रीनपुंसकं वाऽऽश्रित्यैष पुननिषेधस्तदत्यन्तप्रतिषेधाय" इति टिप्पनी ॥ +"तह वियलंगस्सरूवा य" इति प्रवचन० गा० २५ । 554 ॥७०॥ Jain Education Monal For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240