Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्र. र. १३
Jain Education
कषायात्मा २ | योगा- मनोवाक्कायव्यापारास्तदेकत्वपरिणत आत्मा स योगात्मा सयोगानां स्यात् ३ । उपयोगो-ज्ञानदर्शनव्यापारो ज्ञेयविषयस्तत्परिणत उपयोगात्मा सर्वजीवानां, न त्वजीवानाम् ॥ २०० ॥
सम्यग्दर्शनसंपन्नस्य तत्त्वार्थश्रद्धानभाजो यो ज्ञानपरिणामः स ज्ञानात्मा ५ । चक्षुरादिदर्शनपरिणतानां दर्शनात्मा सर्वजीवानां भवति ६ । प्राणातिपातादिपापस्थानेभ्यो विरतानां तदाकारपरिणतानां चारित्रात्मा ७। वीर्य-शक्तिप्रवर्तनं, तद्भाजां सर्वेषां संसारिणां वीर्यात्मा ८ ॥ २०१ ॥
एतेष्ट विकल्पाः प्रतिपादितास्तत्र द्रव्यात्मानमाशङ्कते - आत्मेति ज्ञानदर्शनस्वभावश्चेतनः प्रतीतः सोऽजीवविषयपुद्गलादिषु कथमात्मशब्दप्रवृत्तिः ? इत्यत्रोच्यते - उपचारो - व्यवहारः, स चाततीत्यात्मा भवति व्युत्पत्तितः शब्दवाच्यः, सर्वद्रव्यविषयश्चैष न्याय इति नयविशेषेण- सामान्यग्राहिणा नयेन । स्वरूपात्पररूपात् ॥ २०२ ॥
संयोगो - रूपं, अनेकेन भेदेन निर्देशः परीक्षणीयः । स्वतत्वं - सहजं स्वरूपं, दृष्टमुपलब्धं लक्षणैश्चिहैरनेकभेदं समस्तमात्मनः । "चित्तं चेयणसन्ना, विन्नाणं धारणा य बुद्धी य। ईहा मई विअक्का, जीवस्स उ लक्खणा एए ॥ १ ॥” ॥२०३॥ उत्पत्तिविपत्तिस्थिरता लक्षणं यत्सर्वमपि तदस्ति, अङ्गुलीवत् । एवं यन्नाऽस्ति तदुत्पादादित्रयवन्न भवति, खरशृङ्गवत् । अर्पितं विशेषितं जिनप्रवचनमुत्पन्नं, अनर्पितं - अविशेषितं प्राकृतजनप्रणीतं अतीतं सप्तविकल्पवचनम् ॥ २०४ ॥ कुशूलाद्यवयवावस्थायां घटाद्यभावः । घटोऽयमुत्पन्न इति । तेनाऽऽकारेण तस्य घटस्य ॥ २०५ ॥ चशब्दादतीते । यस्य पदार्थस्य । तेन पदार्थेन ॥ २०६ ॥ पश्चाऽजीवद्रव्याणि, रूपरसगन्धस्पर्शवत् ॥ २०७ ॥
For Private & Personal Use Only
Inelibrary.org

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240