Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 223
________________ Jain Education विप्रतारयति, मनसाऽसत्यं प्रागालोच्य भाषते करोति वा, वचनेन सद्भूतनिवासद्भूतोद्भावनं कटुकसावद्यादिभाषणं, एतत्परिहाराच्चतुर्विधं सत्यं जिनेन्द्रवचने, न त्वन्यत्र ॥ १७४ ॥ अनशनं - चतुर्थभक्तादि षण्मासान्तं तपस्तथा भक्तप्रत्याख्यानेङ्गितमरणपादपोपगमनादि, ऊनोदरता- द्वात्रिंशत्कवलेभ्यो यथाशक्ति यदाहारमूनयति, वृत्तिर्वर्तनं- भिक्षा, तस्याः संक्षेपणं- दत्तिभिर्भिक्षाभिश्च परिमितग्रहणं, रसत्यागः - क्षीरदध्यादिविकृतीनां यथाशक्तिपरिहारः, कायक्लेशः - कायोत्सर्गोत्कटुकासनातापनादिः, संलीनः - सिद्धान्तोपदेशेनेन्द्रियनोइन्द्रियभेदेन, तद्भावस्तत्ता, इन्द्रियसंलीनः - संहृतेन्द्रियव्यापारः, कूर्मवत्, नोइन्द्रियसंलीनो - निष्कषायमार्तरौद्ररहितं मनो धरन् परोपलक्ष्यं बाह्यं तपः प्रोक्तं जिनादिभिः ॥ १७५ ॥ प्रायश्चित्तमालोचनादिदशविधमतिचारमलप्रक्षालनार्थ, एकाग्रचित्तनिरोधो ध्यानं, तत्राऽऽर्तरौद्रे व्युदसनीये, धर्मशुक्ले दे ध्यातव्ये । व्यापृ[ तस्य ] तो भावो वैयावृ[त्त्यं ]त्तं, आचार्यादीनां दशानां भक्तपानवस्त्रादिभिरुपग्रहः शरीरशुश्रूषा चेति, विनीयते येनाऽष्टविधं कर्म स विनयो ज्ञानदर्शनचारित्रोपचारभेदात्, व्युत्सर्गेऽतिरिक्तोपकरणभक्तपानादेरुज्झनं, स्वाध्यायो वाच - नादिः पञ्चविधः, अभ्यन्तरस्य मिथ्यादर्शनकषायादेरपाकरणात्तपोऽपि ॥ १७६ ॥ दिव्यं भवनेशव्यन्तरज्योतिष्कविमानवासिदेवीनां सम्बन्धि, तस्मान्मनोवाक्कायैः कृतकारितानुमतिभिर्विरतिर्नवभेदा, औदारिकं मनुष्यतिर्यक्सम्बन्धि, तत्राऽपि मनोवाक्कायैः कृतकारितानुमतिभिश्च विरतिनवकं तदेवं ब्रह्माऽष्टादशभेदं भवति ॥ १७७ ॥ For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240