Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 224
________________ प्रशमरतिः अवचूर्णी। ॥७१॥ - आत्मन्येव व्यापारोऽध्यात्म, कथमयमात्मा बध्यते ? कथं वा मुच्यते? इति, तद्विदन्तीत्यध्यात्मविदस्ते । मूर्छा गाय, निश्चयनयाभिप्रायेणाऽत्मन प्रतिविशिष्टपरिणामस्तां परिग्रहशब्दवाच्यतया कथयन्ति, यस्मादेवं तस्माद्वैराग्यमिच्छता, आकिञ्चन्यं परो धर्मः, न किञ्चिन्ममेति विगतमूर्छया स्थेयम् ॥ १७८ ॥ दशप्रकारक्षमादिधर्मस्याऽनुष्ठायिनस्तदासेविनः सदैवाऽनवरतं शिवोपायसेविनो दृढानां-वज्रभेदानां, रूढानां-चिरकालावस्थितिप्राप्तस्थैर्याणां, घनानां-बहलानां, एवंविधानामपि ॥ १७९ ॥ माया लोभश्च मानः क्रोधश्च, उद्धताः-सावष्टम्भाः, प्रबला:-प्रकृष्टसामर्थ्याः। विनाशयति, साधुरिति योगः ॥१८॥ व्यतिकरः-सम्पर्कः, विरक्तता-पूर्वमहर्षिसमाचीर्णक्रियाकलापपरता,सद्भावा जीवादयः, एतानि धर्मस्थैर्यजनकानि॥१८॥ आक्षिप्यन्ते धर्म प्रत्यभिमुखाः प्राणिनो यया साऽऽक्षेपणी, विक्षिप्यन्ते-परापरदेवादिदोषकथनेन प्रेर्यन्ते प्राणिनो यत्र सा विक्षेपणी, विमार्गा-जैनमार्गादन्य एकान्तमतावलम्बिनस्तेषां बाधने समर्था पदरचना यस्याः सा, श्रोता चाऽसौ ४/जनश्च, तस्य श्रोत्रमनसोस्तयोःप्रसादजननी, यथा जननी-माता ॥ १८२॥ सम्यग्विवेच्यते-नरकादिदुःखेभ्यो भयं ग्राह्यते यया सा संवेजनी, निर्वेदं कामभोगेभ्यो यया सा,एवमेताम् ॥ १८३॥ यावत्कालं, अध्यात्मचिन्तापन्नस्य न तेनाऽपि परदोषगुणकीर्तनव्यापारेण किञ्चित्प्रयोजनं, तावत्कालं व्यग्रं-व्यापृतम् १८४ आचारादिश्रुतपाठेऽपरेषां पठने चाऽद्य मया किं कृतं ? इत्यादि स्वात्मनि संचिन्तने ॥ १८५॥ ॥७१॥ Jain Education For Private Personel Use Only Anjainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240