Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 218
________________ प्रशमरतिः ॥ ६८ ॥ Jain Education th अन्यदौपग्रहिकं दण्डकाद्युत्सर्गतः कल्प्यं कल्पनीयं, अपवादतो- गाढालम्बनेनाऽकल्प्यमपि ग्राह्यं लघुतरदोषासेवनं | सद्धर्मदेहरक्षानिमित्तं कारणं तेनोक्तम् ॥ १३८ ॥ कल्पयाकल्प्य-शुद्धाशुद्धविधिज्ञः संविग्ना - ज्ञानक्रियायुक्ताः सहाया यस्य । स्वभावविनीतो, दूषणदूषितेऽपि रागादिरहितः ॥ १३९ ॥ धर्मोपकरणेन - वस्त्रपात्रादिना धृतं वपुरस्य, अलेपको -लोभेन न स्पृश्यते ॥ १४० ॥ अकृतगार्यो धर्मोपकरणयुक्तोऽपि न स्नेहमुपगच्छति । निर्ग्रन्थो - वक्ष्यमाणपरिग्रहरहित इति ॥ १४१ ॥ ग्रन्थोऽष्टविधं कर्म, सम्यक्त्वाद्विपरीतं, प्राणातिपातादिभ्योऽनिवृत्तिः, अशुभमनोवाक्काया, अशठं मायारहितं सम्यगुद्यच्छति ॥ १४२ ॥ संवर्धनमुपष्टम्भं वा व्यवहारे व्यापाररूपे ज्ञानादीनामुपग्रहकारि दोषाणां निग्रहकारि यद्वस्तु, तन्निश्चये कल्पनीयं, नाऽवशिष्टम् ॥ १४३ ॥ यद्वस्त्वन्नपानादि दर्शनज्ञानाचाराहोरात्राभ्यन्तरानुष्ठेयव्यापाराणां विनाशकारि, यच्च प्रवचनकुत्साकारि मद्यमांसकन्दमूलाभोज्यगृहभिक्षाग्रहणादि, तत्सर्वं कल्प्यमप्यकल्प्यम् ॥ १४४ ॥ कल्प्याकल्प्यत्वं शुद्धवस्तुष्वप्यनियतं, पुरुषाद्यपेक्षयेति शेषः, यथा विकारभाजां शुद्धमपि क्षीरादि निषिध्यते, नेतरेषां नीरुजां, भेषजं तदन्येषां कल्प्यतेऽशुद्धमपि ॥ १४५ ॥ For Private & Personal Use Only अवचूर्णी । ॥ ६८ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240