________________
प्रशमरतिः हारि, वृत्तिः
॥ ४१ ॥
Jain Education
| स्यान्नास्ति च अवक्तव्यश्च ३ स्यादस्ति च नास्ति चावक्तव्यश्चेति ४, अतोऽन्येन प्रकारेणान्यथा, अर्पितं विशेषितमुपन्यस्तं (नीतं ), अनर्पितमविशेषितमनुपनीतं चेत्यस्माद्विशेषात् ( ग्रंथ १२०० ) सप्त विकल्पा भवन्ति ॥ २०४ ॥
उत्पादादित्रितयभावनामाह
sa स्मिन्नाभूत् साम्प्रतकाले च दृश्यते तत्र । तेनोत्पादस्तस्य विगमस्तु तस्माद्विपर्यासः ॥ २०५ ॥ साम्प्रतकाले चानागते च यो यस्य भवति सम्बन्धी । तेनाविगमस्तस्येति स नित्यस्तेन भावेन ॥ २०६ ॥ योऽर्थो घटादिस्तस्मिन्- कुशूलादौ नाभूत् - नासीत्, सुप्रसिद्धं चैतत् कुशूलाद्यवस्थायां घटाद्यभावः, सांप्रतकाले चवर्तमानकाले च दृश्यते - उपलभ्यते तत्र - कुशूलादौ दण्डचक्रचीवरादिसामग्र्यां वा तेन - घटरूपेण तस्य - कुशूला देरुत्पादःप्रादुर्भावस्तस्य- कुशूलस्य, ततो घटादिः, विगमो - विनाशस्तस्मात् - कुशूलाद्यो विपर्यासो घटः स एव तस्य विनाशो, य एव च तस्य विनाशः स एव तस्योत्पादः, तुलादण्डसमकालभाव्युन्नत्यवनतिवत् । न हि जैनानां निरूपो विनाशोऽस्ति, नच प्राक्तनरूपानुपमर्दे समुत्पादोऽस्तीति ॥ २०५ ॥ साम्प्रतकाले - वर्तमानकाले अनागते च भाविनि चकाराद्भूते - अतीते घटकुशूलकपालेषु च यो मृदादिर्यस्य घटस्य कुशूलस्य कपालादीनां च भवति सम्बन्धी - एतस्यैते एतेषां चैतदिति तेन रूपेण मृदादिना अन्वयिना अविगमः - अविनाशस्तस्येति - मृद्रूपस्य घटकुशूलकपालादेश्चेति स - मृदादिर्घटादि वा नित्योध्रुवस्तेन भावेनेति ॥ २०६ ॥
For Private & Personal Use Only
द्रव्यात्मादि
॥ ४१ ॥
wainelibrary.org