________________
अजीवादि
SISESEISOSISKOSHSHSHSHS
साम्प्रतमजीवपदार्थ प्रकटयितुकामो भेदतः स्वरूपतश्चाहधर्माधर्माकाशानि पुद्गलाः काल एव चाजीवाः । पुद्गलवर्गमरूपं तु रूपिणः पुद्गलाः प्रोक्ताः ॥ २०७॥
यादिप्रदेशवन्तो यावदनन्तप्रदेशिकाः स्कन्धाः। परमाणुरप्रदेशो वर्णादिगुणेषु भजनीयः॥ २०८॥ धर्माधर्माकाशानि कृतद्वन्द्वानि गतिस्थित्यवगाहदानलक्षणानि पुद्गलाः-पूरणगलनधर्माणः काल एव च-अर्धतृतीयद्वीपसमुद्रद्वयव्यापी वर्तनादिलिङ्गः एते पञ्चाप्यजीवाः । पुद्गलवर्ज-पुद्गलास्तिकायविकलं धर्मादिचतुष्टयमरूपं तु-अमूर्तिमदेव। रूपिणो-मूर्तिमंतः पुद्गलाः प्रोक्ता-भणिता इति ॥ २०७॥ व्यादिप्रदेशवन्तो-द्वित्रिचतुष्पश्चादिपरमाणुसंघातनिष्पन्ना यावदनन्तप्रदेशिकाश्च-अनन्तानन्तपरमाणूपचयघटितमूर्तयः स्कन्धा-अवयविनो, यः पुनस्तेषां कारणं स परमाणुः, न ततोऽप्यन्यो लघुरस्तीति, अत एवाप्रदेशः, अपरद्रव्यविकलत्वात् , वर्णादिगुणेषु च-वर्णगन्धरसस्पर्शेषु च एकगुणाद्यनन्तगुणेषु च भजनीयो निश्चेतव्यो वा, तानङ्गीकृत्यासौ सप्रदेश एव, तदुक्तम्-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १॥” ॥ २०८ ॥"
षट् द्रव्याणि कस्मिन् भावे वर्तन्ते इत्यावेदयन्नाहभावे धर्माधर्माम्बरकालाः पारिणामिका ज्ञेयाः। उदयपरिणामि रूपं तु सर्वभावानुगा जीवाः॥२०९॥ भावे पारिणामिके धर्माधर्माम्बरकालाः चत्वारो ज्ञेया-ज्ञातव्याः, अन्यभावाप्रवृत्तेः, एते चत्वारोऽरूपाः, रूपं तु-पुद्गलद्रव्यं पुनरुदयपरिणामि वर्तते, औदयिके पारिणामिके भावे पुद्गला वर्तन्ते इत्यर्थः, तत्रौदयिको भावः स्कन्धपरमाणूनां
Jain Education in
For Private & Personel Use Only
W
airtelibrary.org