________________
प्रशमरतिः
हारि. वृत्तिः
RISKOSHUSHA
लोकस्थानादि
॥४२॥
वर्णरसादिपरिणामः, पारिणामिके परमाणु (त्वादि) इत्यजीवाः पञ्चधा । जीवाः सर्वभावानुगाः-यथासम्भवं न्यादिभाववन्त इति ॥ २०९॥
॥इति षविधं द्रव्यम् ॥ अथ कोऽयं लोक इत्याशङ्कते-किं द्रव्यान्तरमुतान्यत्किंचिदित्याहजीवाजीवा द्रव्यमिति षविधं भवति लोकपुरुषोऽयम् । वैशाखस्थानस्थः पुरुष इव कटिस्थकरयुग्मः॥२१०॥ तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव च तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् ॥२१॥ सप्तविधोधोलोकस्तिर्यग्लोको भवत्यनेकविधः। पञ्चदशविधानः पुनरूद्मलोकः समासेन ॥ २१२॥ लोकालोकव्यापकमाकाशं मर्त्यलौकिकः कालः। लोकव्यापि चतुष्टयमवशेषं त्वेकजीवो वा ॥ २१३॥
जीवाजीवा इति षड्विधं द्रव्यं भवति, स च षड्विधः द्रव्यसंयोगः आधाराधेयरूपो लोकपुरुषः, अयं निगद्यते । सच संस्थानतो वैशाखस्थानस्थो-विवृतपादस्थानस्थितः पुरुष इव-नर इव । कीदृशः?-कटिस्थकरयुग्म:-कटि प्रदेशस्थापितहस्तद्वयः, विवृतपादभ्राम्यमाणनराकार इति ॥२१०॥ अत्र स्थालमिव चेत्यत्र चकारो न दृश्यते आदर्शकेषु, तं च विना छन्दो न पूर्यते, तत्त्वं श्रुतविदो विदन्ति । तत्र-पुरुषेऽधोलोक-सप्तनरकपृथ्वीरूपं अधोमुखमल्लकसंस्थानं-अवाड्मखशरावाकारं वर्णयन्ति-प्रतिपादयन्ति, स्थालमिव च-वृत्तभाजनाकारं, किं तत् ?-तिर्यग्लोक-मध्यलोक, ऊर्ध्वलोकमथ मल्लकसमुद्शरावसंपुटाकारमिति ॥ २११ ॥ सप्तविधः-सप्तप्रकारो भवत्यधोलोकः, तत्र हि धर्माद्याः सप्त पृथिव्योऽधोऽधो विस्तृताः।
॥४२॥
USES
Jain Education
a
l
For Private Personel Use Only
Mainelibrary.org