SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि. वृत्तिः RISKOSHUSHA लोकस्थानादि ॥४२॥ वर्णरसादिपरिणामः, पारिणामिके परमाणु (त्वादि) इत्यजीवाः पञ्चधा । जीवाः सर्वभावानुगाः-यथासम्भवं न्यादिभाववन्त इति ॥ २०९॥ ॥इति षविधं द्रव्यम् ॥ अथ कोऽयं लोक इत्याशङ्कते-किं द्रव्यान्तरमुतान्यत्किंचिदित्याहजीवाजीवा द्रव्यमिति षविधं भवति लोकपुरुषोऽयम् । वैशाखस्थानस्थः पुरुष इव कटिस्थकरयुग्मः॥२१०॥ तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव च तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् ॥२१॥ सप्तविधोधोलोकस्तिर्यग्लोको भवत्यनेकविधः। पञ्चदशविधानः पुनरूद्मलोकः समासेन ॥ २१२॥ लोकालोकव्यापकमाकाशं मर्त्यलौकिकः कालः। लोकव्यापि चतुष्टयमवशेषं त्वेकजीवो वा ॥ २१३॥ जीवाजीवा इति षड्विधं द्रव्यं भवति, स च षड्विधः द्रव्यसंयोगः आधाराधेयरूपो लोकपुरुषः, अयं निगद्यते । सच संस्थानतो वैशाखस्थानस्थो-विवृतपादस्थानस्थितः पुरुष इव-नर इव । कीदृशः?-कटिस्थकरयुग्म:-कटि प्रदेशस्थापितहस्तद्वयः, विवृतपादभ्राम्यमाणनराकार इति ॥२१०॥ अत्र स्थालमिव चेत्यत्र चकारो न दृश्यते आदर्शकेषु, तं च विना छन्दो न पूर्यते, तत्त्वं श्रुतविदो विदन्ति । तत्र-पुरुषेऽधोलोक-सप्तनरकपृथ्वीरूपं अधोमुखमल्लकसंस्थानं-अवाड्मखशरावाकारं वर्णयन्ति-प्रतिपादयन्ति, स्थालमिव च-वृत्तभाजनाकारं, किं तत् ?-तिर्यग्लोक-मध्यलोक, ऊर्ध्वलोकमथ मल्लकसमुद्शरावसंपुटाकारमिति ॥ २११ ॥ सप्तविधः-सप्तप्रकारो भवत्यधोलोकः, तत्र हि धर्माद्याः सप्त पृथिव्योऽधोऽधो विस्तृताः। ॥४२॥ USES Jain Education a l For Private Personel Use Only Mainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy