SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्र.र.८ तिर्यग्लोको भवत्यनेकविधः, तत्र ह्यसंख्येया द्वीपसमुद्राः । पञ्चदशविधानः - पञ्चदशप्रकारः पुनरूर्ध्वलोकः समासेनसंक्षेपेण, तत्र हि द्वादश कल्पाः ग्रैवेयकाश्च नवेत्येकः पश्चो (ञ्चानु) तराणीत्येकः सिद्धिश्चेति पञ्चदशेति ॥ २१२॥ लोकालोकयोः समयप्रसिद्धयोर्व्यापकमाकाशं, तत्प्रमाणमित्यर्थः । मर्त्यलोकभवः कालः । लोकव्यापि चतुष्टयं चतुर्दशरज्वात्मकाकाशखण्डव्यापि द्वयोराकाशकालयोरुद्धरितं धर्मास्तिकायादिकं । अवशेषं तु- सर्वलोकस्यासंख्येय भागादिकं एकजीव :- पृथिव्यादिको व्यानोतीतिशेषः, वाशब्दात् समस्तलोकं व्याप्नोति, केवलिसमुद्घाते केवली, न पुनरन्य इति । अन्ये त्ववशेषमिति पदं चतुष्टयस्य विशेषणं कृत्वा व्याख्यान्ति - एकजीवो लोकं व्याप्नोति केवलिसमुद्घाते, वाशब्दादजीवोऽप्यचित्तमहास्कन्ध इत्यपि ॥ २१३ ॥ धर्माधर्मा काशान्येकैकमतः परं त्रिकमनन्तम् । कालं विनाऽस्तिकाया जीवमृते चाप्यकर्तॄणि ॥ २१४ ॥ धर्माधर्माकाशानि त्रीणि एकैकमिति - एकैकद्रव्यरूपाणि, अत-एतस्मात् परं व्यतिरिक्तं त्रिकं - कालपुद्गलजीवास्तिकायात्मकमनन्तं - अनन्तप्रमाणं । कालं विना - कालमन्तरेण पञ्च अस्तिकायाः - प्रदेशसमूहाः, अयमर्थः - धर्माधर्मलोकाकाशैकजीवप्रदेशा असंख्याः, पुद्गला अनन्ता इति । जीवमृते चापि - जीवास्तिकायं विना अन्यद्रव्याणि पञ्चाप्यकर्तृणि-न सुखदुःखादेः कारणानि, जीव एव सुखदुःखकारी, अकर्तृत्वे सति संसाराभावप्रसङ्गादिति ॥ २१४ ॥ Jain Education national धर्मादिद्रव्योपकारमाह धर्मो गतिस्थितिमतां द्रव्याणां गत्युपग्रहविधाता । स्थित्युपकर्ताऽधर्मोऽवकाशदानोपकृद्गमनम् ॥ २१५ ॥ For Private & Personal Use Only लोकवि चारः jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy