________________
प्र.र.८
तिर्यग्लोको भवत्यनेकविधः, तत्र ह्यसंख्येया द्वीपसमुद्राः । पञ्चदशविधानः - पञ्चदशप्रकारः पुनरूर्ध्वलोकः समासेनसंक्षेपेण, तत्र हि द्वादश कल्पाः ग्रैवेयकाश्च नवेत्येकः पश्चो (ञ्चानु) तराणीत्येकः सिद्धिश्चेति पञ्चदशेति ॥ २१२॥ लोकालोकयोः समयप्रसिद्धयोर्व्यापकमाकाशं, तत्प्रमाणमित्यर्थः । मर्त्यलोकभवः कालः । लोकव्यापि चतुष्टयं चतुर्दशरज्वात्मकाकाशखण्डव्यापि द्वयोराकाशकालयोरुद्धरितं धर्मास्तिकायादिकं । अवशेषं तु- सर्वलोकस्यासंख्येय भागादिकं एकजीव :- पृथिव्यादिको व्यानोतीतिशेषः, वाशब्दात् समस्तलोकं व्याप्नोति, केवलिसमुद्घाते केवली, न पुनरन्य इति । अन्ये त्ववशेषमिति पदं चतुष्टयस्य विशेषणं कृत्वा व्याख्यान्ति - एकजीवो लोकं व्याप्नोति केवलिसमुद्घाते, वाशब्दादजीवोऽप्यचित्तमहास्कन्ध इत्यपि ॥ २१३ ॥
धर्माधर्मा काशान्येकैकमतः परं त्रिकमनन्तम् । कालं विनाऽस्तिकाया जीवमृते चाप्यकर्तॄणि ॥ २१४ ॥ धर्माधर्माकाशानि त्रीणि एकैकमिति - एकैकद्रव्यरूपाणि, अत-एतस्मात् परं व्यतिरिक्तं त्रिकं - कालपुद्गलजीवास्तिकायात्मकमनन्तं - अनन्तप्रमाणं । कालं विना - कालमन्तरेण पञ्च अस्तिकायाः - प्रदेशसमूहाः, अयमर्थः - धर्माधर्मलोकाकाशैकजीवप्रदेशा असंख्याः, पुद्गला अनन्ता इति । जीवमृते चापि - जीवास्तिकायं विना अन्यद्रव्याणि पञ्चाप्यकर्तृणि-न सुखदुःखादेः कारणानि, जीव एव सुखदुःखकारी, अकर्तृत्वे सति संसाराभावप्रसङ्गादिति ॥ २१४ ॥
Jain Education national
धर्मादिद्रव्योपकारमाह
धर्मो गतिस्थितिमतां द्रव्याणां गत्युपग्रहविधाता । स्थित्युपकर्ताऽधर्मोऽवकाशदानोपकृद्गमनम् ॥ २१५ ॥
For Private & Personal Use Only
लोकवि
चारः
jainelibrary.org