________________
प्रशमरतिः हारि.वृत्तिः
धर्माद्युपकाराः
धर्मो-धर्मास्तिकायो, गतिस्थितिमतां द्रव्याणां यथासंभवं सम्बन्धः कार्यः, तत्र गतिपरिणतानां द्रव्याणां-जीवपुद्गलानां गत्युपग्रहस्य विधाता-कर्ता धर्मास्तिकायः। स्थितिपरिणतानां तु स्थित्युपकर्ताऽधर्मास्तिकायः । तथा अवकाशदानोपकृद्अवगाहतां च द्रव्याणामवकाशदानमुपकरोति, किं तत् ?-गगनं-आकाशास्तिकाय इति ॥ २१५ ॥
अथ पुद्गलद्रव्यस्य के उपकारा इत्याहस्पर्शरसवर्णगन्धाः शब्दो बन्धोऽथ सूक्ष्मता स्थौल्यम । संस्थानं भेदतमश्छायोद्योतातपश्चेति ॥ २१६॥ कर्मशरीरमनोवाग्विचेष्टितोच्यासदुःखसुखदाः स्युः। जीवितमरणोपग्रहकराश्च संसारिणः स्कन्धाः॥२१७॥ स्पर्शो-गुरुलघुमृदुकठिनशीतोष्णस्निग्धरूक्षभेदादष्टविधः, तिक्तकटुकषायाम्लमधुरभेदात्पञ्चविधो रसः, एवं कृष्णादिः पञ्चधा वर्णः, सुरभीतरभेदो गन्धः, कृतद्वन्द्वाः, एते चित्रभेदाः पुद्गलद्रव्यस्योपकार का] इति शेषः । शब्दोऽनेकप्रकारः, सोऽपि तस्यैवोपकारः, एवं सर्वत्र योजना, बन्धः कर्माणूनां आत्मप्रदेशैः सह, अथ पूरणे, सूक्ष्मता-सूक्ष्मपरिणामः, यत्सद्भावे पुद्गलाः साक्षादिन्द्रियैर्न गृह्यन्ते, तथा स्थौल्यं-स्थूलता, यत्सद्भावे ग्रहणधारणयोग्याः स्कन्धाः, तथा संस्थानं वृत्तव्यस्रचतुरस्रायतपरिमण्डलभेदात् प्रसिद्धस्वरूपात पंचधा, तथा भेदो-द्विधाभावो-व्यादि (परमाणु) स्कन्धानां पृथक्पृथग्भवनं, तमःअन्धकारः छाया-शीता आह्लादकारिणी, उद्योतो रत्नादिसमुद्भवः, आतपो-दिनकरतापः, भेदादयः पञ्चापि कृतद्वन्द्वाः । सर्वेऽप्येते पुद्गलद्रव्यस्योपकारा युक्त्यागमप्रतिपाद्याः ॥२१६ ॥ तथा कर्म-ज्ञानावरणादि शरीरं-औदारिकादि मनोमनोवर्गणाः वाग-द्वीन्द्रियादिभिरुच्चार्यमाणा विचेष्टितानि-विविधव्यापारा ग्रहणोत्क्षेपणाकुञ्चनादयः उच्छासः-आनपानी,
॥४३॥
Jain Education
ainelibrary.org
a
For Private Personal Use Only
l