________________
Jain Educatio
दुःखं सुखं च प्रतीतं, एतानि कर्मादीन्यष्टौ पदानि कृतद्वन्द्वानि ददति - कुर्वन्ति ये ते तथा । तथा जीवितं - आयुः, तदपि पौगलिक मार्हतानां जीवितोपष्टम्भहेतवो वा - अन्नपानादयः, मरणं-प्राणत्यागलक्षणं, तदपि पुद्गलशाटात्मकत्वात्पौद्गलिकं, | मरणहेतवो वा शस्त्राग्निविषादयः, उपग्रहः - सौभाग्यादृश्यीकरणधारास्तम्भादयः, एतांस्त्रीनपि कृतद्वन्द्वान् कुर्वन्ति - विदधतीति तत्कराः संसारिणो - जीवस्य, स्कन्धाः - प्रभूताणुसमुदायाः, न तु द्व्यणुकादयः स्कन्धाः, तेषां अत्र कार्येषु अनुपयोगित्वात्, स्युः - भवेयुरिति क्रिया सर्वपदेषु योज्या इति ॥ २१७ ॥
अथ कालकृतोपकारप्रदर्शनायाह
परिणाम वर्तनाविधिपरापरत्वगुणलक्षणः कालः । सम्यक्त्वज्ञानचारित्रवीर्यशिक्षागुणा जीवाः ॥ २९८ ॥ परिणामश्च वर्तनाविधिश्च परापरत्वं च तानि तथा तान्येव गुणा-लक्षणं यस्य कालस्य स परिणामवर्तनाविधिपरापरत्वगुणलक्षणः । क एवंविधः ?, तमाह - कालः । तत्र परिणमनं परिणामो, यथा वर्धतेऽङ्कुरो हीयते वा इत्यादिकः कालजनित उपकारः, वर्तनाया विधिः - प्रकारो वर्तनाविधिः, वर्तत इदं न वर्तते चेदमित्येतदपि कालापेक्षं, अस्मिन् काल इदं प्रवर्तते इदं न प्रवर्तत इति । तथा परत्वमपरत्वं च त्वप्रत्यय उभयत्र योज्यते, इदं च कालकृतं कथं ?, पञ्चाशद्वर्षात्पञ्चविंशतिवर्षोऽपरः- अर्वाग्वर्ती, पञ्चविंशतिवर्षात्पञ्चाशद्वर्षः परः - परवर्तीति । कालः परिणामादिभिर्यथोकैर्लक्ष्यत इत्यर्थः । अथ जीवद्रव्यं केनोपकारेणोपकुरुते ? । अत्राजीवपदव्याख्याने यज्जीवपदव्याख्यानं तद्द्रव्यव्याख्याप्रस्तावात् । सम्यक्त्वादयो गुणा येषां ते तथा, जीवाः, तत्राद्यास्त्रयः प्रसिद्धाः, वीर्य - शक्तिविशेषः, शिक्षा - ग्रहणासेवनरूपेति ॥ २९८ ॥ ( ग्रंथ १३०० )
tional
For Private & Personal Use Only
धर्माद्युप
काराः
v.jalnelibrary.org