SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Jain Educatio दुःखं सुखं च प्रतीतं, एतानि कर्मादीन्यष्टौ पदानि कृतद्वन्द्वानि ददति - कुर्वन्ति ये ते तथा । तथा जीवितं - आयुः, तदपि पौगलिक मार्हतानां जीवितोपष्टम्भहेतवो वा - अन्नपानादयः, मरणं-प्राणत्यागलक्षणं, तदपि पुद्गलशाटात्मकत्वात्पौद्गलिकं, | मरणहेतवो वा शस्त्राग्निविषादयः, उपग्रहः - सौभाग्यादृश्यीकरणधारास्तम्भादयः, एतांस्त्रीनपि कृतद्वन्द्वान् कुर्वन्ति - विदधतीति तत्कराः संसारिणो - जीवस्य, स्कन्धाः - प्रभूताणुसमुदायाः, न तु द्व्यणुकादयः स्कन्धाः, तेषां अत्र कार्येषु अनुपयोगित्वात्, स्युः - भवेयुरिति क्रिया सर्वपदेषु योज्या इति ॥ २१७ ॥ अथ कालकृतोपकारप्रदर्शनायाह परिणाम वर्तनाविधिपरापरत्वगुणलक्षणः कालः । सम्यक्त्वज्ञानचारित्रवीर्यशिक्षागुणा जीवाः ॥ २९८ ॥ परिणामश्च वर्तनाविधिश्च परापरत्वं च तानि तथा तान्येव गुणा-लक्षणं यस्य कालस्य स परिणामवर्तनाविधिपरापरत्वगुणलक्षणः । क एवंविधः ?, तमाह - कालः । तत्र परिणमनं परिणामो, यथा वर्धतेऽङ्कुरो हीयते वा इत्यादिकः कालजनित उपकारः, वर्तनाया विधिः - प्रकारो वर्तनाविधिः, वर्तत इदं न वर्तते चेदमित्येतदपि कालापेक्षं, अस्मिन् काल इदं प्रवर्तते इदं न प्रवर्तत इति । तथा परत्वमपरत्वं च त्वप्रत्यय उभयत्र योज्यते, इदं च कालकृतं कथं ?, पञ्चाशद्वर्षात्पञ्चविंशतिवर्षोऽपरः- अर्वाग्वर्ती, पञ्चविंशतिवर्षात्पञ्चाशद्वर्षः परः - परवर्तीति । कालः परिणामादिभिर्यथोकैर्लक्ष्यत इत्यर्थः । अथ जीवद्रव्यं केनोपकारेणोपकुरुते ? । अत्राजीवपदव्याख्याने यज्जीवपदव्याख्यानं तद्द्रव्यव्याख्याप्रस्तावात् । सम्यक्त्वादयो गुणा येषां ते तथा, जीवाः, तत्राद्यास्त्रयः प्रसिद्धाः, वीर्य - शक्तिविशेषः, शिक्षा - ग्रहणासेवनरूपेति ॥ २९८ ॥ ( ग्रंथ १३०० ) tional For Private & Personal Use Only धर्माद्युप काराः v.jalnelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy