SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि.वृत्तिः पुण्यादि खरूपं ॥४४॥ एवं जीवाजीवावभिधाय सम्प्रति पुण्यापुण्यपदार्थद्वयमाहपुद्गलकर्म शुभं यत् तत्पुण्यमिति जिनशासने दृष्टम् ३। यदशुभमथ तत्पापमिति भवति सर्वज्ञनिर्दिष्टम४॥२१९॥ सूचकत्वात्सूत्रस्य पुद्गलमयं पौगलिकं, किमेवंविधमित्याह-कर्म । तच्च द्वेधा। तत्र यच्छुभं तत् पुण्यमिति जिनशासने दृष्टं । यदशुभं तत् पापम् । अथानन्तर्ये । इति भवति सर्वज्ञनिर्दिष्टं । तत्र पुण्यप्रकृतयः-"सायं उच्चागोयं सत्तत्तीसं तु नामपयडीओ। तिन्नि य आऊणि तहा वायालं पुन्नपयडीओ॥१॥" पापप्रकृतयस्तु यथा-"नाणंतरायदसगं देसण नव मोह|पयइ छवीसं । नामस्स चउत्तीसं तिण्हं एकेक पावाओ ॥२॥"॥२१९ ॥ अथास्रवसंवरौ निरूपयतियोगः शुद्धः पुण्यास्रवस्तु पापस्य तद्विपर्यासः५ । वाकायमनोगुप्तिनिराश्रवः संवरस्तूतः६ ॥ २२० ॥ योगो-मनोवाकायाख्यः, कीदृशः?-शुद्धो-जिनागमपूर्वको व्यापारः, स किं ?-पुण्यस्यास्रवः पुण्यासवः, तु पुनरर्थः, पुण्यवन्धहेतुरिति । पापस्य तद्विपर्यासो-व्यत्ययः, अयमर्थः-अशुद्धो योगः पापस्यास्रव इति । वाकायमनोगुप्तिः-वचनादि-15 गोपनं निराम्रवः-कर्मप्रवेशविकलः संवरस्तूक्तः-संवरो नाम पदार्थोऽभिहित इति ॥ २२०॥ निर्जरा १ बन्ध २ मोक्ष ३ पदार्थत्रयप्रतिपादनार्थमाहसंवृततपउपधानात्तु निर्जरा ७ कर्मसन्ततिबन्धः ८। बन्धवियोगो मोक्ष९स्त्विति संक्षेपान्नव पदार्थाः॥२२१ तपश्चोपधानं च तपउपधानं संवृतस्य तपउपधानं संवृततपउपधानं तस्मात्तु, पाठान्तरे तपउपधानमिति । किं ?-निर्जरा SECRUCCASSROSALMERICROS ॥४४॥ Jain Education An a For Private Personel Use Only Mainelibrary.org I
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy