SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वं MEROEMORRECRUGRAM प्राक्तनकर्मशाटः, तत्र तपोऽनशनादि, उपधानं तु योगोद्वहनं । कर्मणो नवस्य सन्ततिः स बन्ध उच्यते । तथा बन्धवियोगो मोक्षः । तु पुनरर्थः । इति संक्षेपान्नव पदार्था इति ॥ २२१॥ ___ एतेष्वध्यवसायो योऽर्थेषु विनिश्चयेन तत्त्वमिति । सम्यग्दर्शनमेतत्तु तन्निसर्गादधिगमावा ॥ २२२ ॥ एतेषु-जीवादिष्वर्थेषु योऽध्यवसायः-परिणामो विनिश्चयेन-परमार्थेन तत्त्वमिति-सत्यं तथ्यं सद्भूतमित्यर्थः । एतत् सम्यग्दर्शन-सम्यक्त्वमभिधीयते । एतच्च निसर्गाद्वा लभ्यते अधिगमाद्वेति ॥ २२२ ॥ ___एतयोरेव व्यत्ययेन पर्यायानाहशिक्षाऽऽगमोपदेशश्रवणान्येकाथिकान्यधिगमस्य । एकार्थः (\)परिणामो भवति निसर्गः खभावश्च ॥२२३॥ शिक्षा-जिनधर्माभ्यासः आगमः-पाठः उपदेशः-आप्तवचनं श्रवणं-आकर्णनं, एषां द्वन्द्वः। तान्येकार्थिकान्यधिगमस्य, एकार्थे-एकस्मिन्नर्थे सम्यक्त्वलक्षणे यः परिणामः-परिणतिविशेषः स भवति निसर्गः, स्वभावश्च-स्वस्य-आत्मनस्तेन तेन रूपेण भवनं इति भावना ॥ २२३ ॥ एतन्निगमनं विपक्षं प्रतिपादयन् उत्तरसंबन्धं चाहएतत्सम्यग्दर्शनमनधिगमविपर्ययौ तु मिथ्यात्वम् । ज्ञानमथ पञ्चभेदं तत् प्रत्यक्षं परोक्षं च ॥ २२४ ॥ एतत्सम्यग्दर्शनं लेशतोऽभिहितं, यः पुनरनधिगमो-योऽनध्यवसायो १ यश्च विपर्ययो-विपरीतार्थयाहिप्रत्ययः २ तुश Jain Educationala For Private & Personel Use Only 50 ainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy