________________
N
प्रशमरतिः ब्दात्संशयश्च३, एतत्रयमपि मिथ्यात्वमभिधीयते । ज्ञानमथ पञ्चभेदं मत्यादिभेदात् समासतः, प्रत्यक्षं च परोक्षं च वक्ष्य
ज्ञानभेदादि हारि.वृत्तिः
माणस्वरूपमिति ॥ २२४॥
तदेवाह॥४५॥
तत्र परोक्षं द्विविधं श्रुतमाभिनिबोधिकं च विज्ञेयम् । प्रत्यक्षं त्ववधिमनःपर्यायौ केवलं चेति ॥ २२५ ।।
तत्र-तयोर्मध्ये परोक्षं द्विविधं-द्विभेदं श्रुतं-श्रुतज्ञानं आभिनिबोधिकं-मतिज्ञानं विज्ञेयम् । प्रत्यक्षं पुनरवधिमनःपर्यायौ केवलं चेतीति-त्रिविधे (धमि) ति च सुबोधमिति ॥ २२५ ॥
एषामुत्तरभेदविषयादिभिर्भवति विस्तराधिगमः। एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्म्य इति ॥ २२६॥ एषां-मत्यादिज्ञानानां उत्तरभेदा-अष्टाविंशतिचतुर्दशविधषविधद्विविधएकभेदादयो, विषयो-गोचरो मतिश्रुतयोः सामान्यद्रव्येष्वसर्वपर्यायेषु अवधिज्ञानस्य रूपिषु मनःपर्यायज्ञानस्य मनोगतद्रव्येषु केवलस्य सर्वद्रव्यपर्यायेषु, आदि
शब्दात् स्वरूपलाभक्रमक्षेत्रादिपरिग्रहः, समासस्त्वेवं-उत्तरभेदाश्च विषयाश्च ते आदिर्येषां ते तथा तैरुत्तरभेदविषयादिभिः ४ करणभूतैर्भवति-जायते विस्तराधिगमो-विस्तरपरिच्छेदः । तथा एकद्वित्रिचतुःसंख्यानि एकस्मिन् जीवे भाज्यानि तु-विक-18 दिल्पनीयानि पुनः आचतुर्व्यः-चत्वारि यावत् , एकस्मिन् जीवे एकं मतिज्ञानं शास्त्रपाठश्रवणाभावात् , तत्त्वतस्तु मतिश्रुते ॥४५॥
सर्वत्र, तथा द्वे मतिश्रुते, तथा त्रीणि मतिश्रुतावधिज्ञानानि, तथा चत्वारि मतिश्रुतावधिमनःपर्यायज्ञानानि, नतु पञ्च, केवलज्ञाने सत्येषामभावादिति ॥ २२६ ॥
AGARALA
l
Jain Education
For Private Personal Use Only
inelibrary.org
onal