________________
ज्ञानाज्ञाने चारित्रं च
__ अथ सम्यग्ज्ञानमिथ्याज्ञानयोः किंकृतो विशेषः?सम्यग्दृष्टानं सम्यग्ज्ञानमिति नियमतः सिद्धम् । आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् ॥ २२७॥
सम्यग्दृष्टेः-क्षायिकादित्रिविधदर्शनिनो ज्ञानं-वस्तुपरिच्छेदः सम्यग्ज्ञानमिति नियमतो-नियमेन सिद्धं । किं तदित्याहआद्यत्रयं-मतिश्रुतावधिरूपं अज्ञानमपि-विपरीतबोधोऽपि भवति-जायते । कीदृशं सत्-मिथ्यात्वसंयुक्तं-मिथ्यात्वोदयोपरक्तस्वभावं, अयमर्थः-तदेव मत्यादिविपर्ययमज्ञानत्रयं भण्यते, मत्यज्ञानं श्रुताज्ञानं विभङ्गमिति । जीव १ उपयोग २भाव ३ द्रव्याणी ४ त्यधिकाराश्चत्वारः ॥ २२७ ॥
चारित्रमधुनासामायिकमित्याचं छेदोपस्थापनं द्वितीयं तु । परिहारविशुद्धिः सूक्ष्मसंपरायं यथाख्यातम् ॥ २२८॥ सामायिक-समशत्रुमित्रभावं प्रथमचरमतीर्थकरयोरित्वरं मध्यमविदेहजिनानां च यावज्जीवमित्येवंरूपमाद्यं १ पूर्वपर्यायच्छेदादुत्तरपर्यायोपस्थापनं द्वितीयं २ तत् पुनराद्यन्तजिनतीर्थयोः। परिहारविशुद्धिकं-परिहारेण-आचाम्लवर्जिता(ना)हारेण विशुद्धिः-कर्मक्षयो यत्र तत्तथा, तत्केषां भवति?-अधीतनवमपूर्वतृतीयाचारवस्तुनां साधूनां गच्छविनिर्गतानां परिहारिककहाल्पस्थितत्वेन त्रिधास्थितानां ग्रीष्मशिशिरवर्षासु चतुर्थादिद्वादशान्तभक्तभोजिनाम्,(पारणे)आचाम्लेनैव परिहारिकाणां, तथा
Jain Educatio
n
al
For Private & Personel Use Only
Orjainelibrary.org