Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 209
________________ Jain Educat रागद्वेषादिजालस्य मूलकारणं जीवस्येति शेषः ॥ ५९ ॥ मत्र कोटयो ३ हनन ३ पचन ३ क्रयणानां स्वयं करणकारणानुमतिभिस्त्रिरूपास्ताभिरुद्गमादिभिश्च शुद्धं यदुञ्छमात्रं भैक्ष्यं तेन यात्रा - ऽधिकारात्संयमयात्रा, तथा निर्वाहो यस्य, शुद्धतमाहारोपधिपात्रग्रहणतत्परस्येति भावार्थः ॥ ६० ॥ सर्वज्ञभाषित जीवादिपदार्थ परमार्थस्वरूपभावनाशीलस्य जीवाजीवाधारभूतलोकावगतस्वरूपस्य वक्ष्यमाणाष्टादशसहस्रशीलाङ्गधारणकृतप्रतिज्ञस्य ॥ ६१ ॥ दर्शनमोहनीय कर्मक्षयोपशमेन दर्शनशुद्धिरूपमनुप्राप्तस्य धर्माध्यवसायेऽध्यवसायस्याऽन्योन्यं स्वदर्शनपरदर्शनापेक्षयोंत्तरोत्तरविशेषं पश्यतो जिनागमे ॥ ६२ ॥ त्रस्तस्य । स्वहितार्थे - आत्मपथ्यमोक्षप्रयोजने आभिमुख्येन रता - बद्धा प्रीतिर्मतिर्यस्य ॥ ६३ ॥ अनन्तसंख्यायाः सूचिका भवकोटयः ॥ ६४ ॥ समुदया- धनधान्यादिनिचयाः । धर्मे - क्षान्त्यादिके । तदारोग्यादि लब्ध्वा - प्राप्य हितकार्ये शास्त्राध्ययनादौ ॥ ६५ ॥ शास्त्रमिह लौकिकमथवा शास्त्राणामागमो गमनं तल्लाभमिच्छता ॥ ६६ ॥ कुलमुग्रादि, वचनं माधुर्यादिगुणमच्छेषाणि प्रतीतानि, सम्पच्छन्दः प्रत्येकं योज्यते ॥ ६७ ॥ आगमत्रतमूलनिर्णयं प्रति निकषः - कषपट्टसमानः, परीक्षास्थानमित्यर्थः। वि- विशेषेण नीतः - प्राप्तो विनयो येन स तथा ॥ ६८ ॥ हितकाङ्क्षिणा - मोक्षाभिलाषिणा शिष्येण ॥ ६९ ॥ ational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240