________________
Jain Educat
रागद्वेषादिजालस्य मूलकारणं जीवस्येति शेषः ॥ ५९ ॥
मत्र कोटयो ३ हनन ३ पचन ३ क्रयणानां स्वयं करणकारणानुमतिभिस्त्रिरूपास्ताभिरुद्गमादिभिश्च शुद्धं यदुञ्छमात्रं भैक्ष्यं तेन यात्रा - ऽधिकारात्संयमयात्रा, तथा निर्वाहो यस्य, शुद्धतमाहारोपधिपात्रग्रहणतत्परस्येति भावार्थः ॥ ६० ॥ सर्वज्ञभाषित जीवादिपदार्थ परमार्थस्वरूपभावनाशीलस्य जीवाजीवाधारभूतलोकावगतस्वरूपस्य वक्ष्यमाणाष्टादशसहस्रशीलाङ्गधारणकृतप्रतिज्ञस्य ॥ ६१ ॥
दर्शनमोहनीय कर्मक्षयोपशमेन दर्शनशुद्धिरूपमनुप्राप्तस्य धर्माध्यवसायेऽध्यवसायस्याऽन्योन्यं स्वदर्शनपरदर्शनापेक्षयोंत्तरोत्तरविशेषं पश्यतो जिनागमे ॥ ६२ ॥
त्रस्तस्य । स्वहितार्थे - आत्मपथ्यमोक्षप्रयोजने आभिमुख्येन रता - बद्धा प्रीतिर्मतिर्यस्य ॥ ६३ ॥
अनन्तसंख्यायाः सूचिका भवकोटयः ॥ ६४ ॥
समुदया- धनधान्यादिनिचयाः । धर्मे - क्षान्त्यादिके । तदारोग्यादि लब्ध्वा - प्राप्य हितकार्ये शास्त्राध्ययनादौ ॥ ६५ ॥ शास्त्रमिह लौकिकमथवा शास्त्राणामागमो गमनं तल्लाभमिच्छता ॥ ६६ ॥
कुलमुग्रादि, वचनं माधुर्यादिगुणमच्छेषाणि प्रतीतानि, सम्पच्छन्दः प्रत्येकं योज्यते ॥ ६७ ॥ आगमत्रतमूलनिर्णयं प्रति निकषः - कषपट्टसमानः, परीक्षास्थानमित्यर्थः। वि- विशेषेण नीतः - प्राप्तो विनयो येन स तथा ॥ ६८ ॥ हितकाङ्क्षिणा - मोक्षाभिलाषिणा शिष्येण ॥ ६९ ॥
ational
For Private & Personal Use Only
www.jainelibrary.org