SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः अवचूर्णी। ॥६३॥ इन्द्रिययोग्यो विषयो भावः। येनाऽक्षाणीन्द्रियाणि तृप्तिं प्राप्नवन्त्यनेकस्मिन्मार्गे प्रकर्षेण लीनानि ॥४८॥ विषयो-रूपादिः परिणामवशान्मृतकलेवरादिवशादशुभः स्यात् , कचवरादिरशुभोऽपि वर्यः स्याद्धपनादिना ॥४९॥ कारणवशेन-निमित्तसामर्थेन यद्यत्प्रयोजनमर्थो जायते, यथा-येन प्रकारेण स्यात्तथा-तेनैव प्रकारेण तमर्थ शुभमशुभ चिन्तयति, यथा-शत्रुघ्नं विषं पितृघ्नं च ॥५०॥ शब्दादिः स्वरोचनेन परितोषमाधत्ते । स्वमत्या विकल्पो द्विषादिपरिणामजनितविकल्पनं, तत्राभिरता आसक्ताः॥५१॥ कदाचिद्वेषवशतः समुपजातरागस्य कदाचिद्रागवशान्निश्चयतः परमार्थतस्तद्रागद्वेषकारणमेव ॥ ५२॥ । रागद्वेषकृतप्रतिघातस्य ॥ ५३ ॥ इन्द्रियव्यापारे-शब्दादिप्रवर्तने भव्यमभव्यं वा करोति परिणामं रागयुतो द्वेषयुतः, स आत्मनो भावः कर्मबन्धस्य तस्य तस्य निमित्तमात्ममो-जीवस्य भवति ॥५४॥ मोहोऽज्ञानं, तत्त्वार्थाश्रद्धानं मिथ्यात्वमाश्रवेभ्योऽनिवृत्तिरविरतिः, रागादिभिर्विकथादिप्रमादमनःप्रभृतियोगयुतैः ॥५६॥ एतेषां दोषाणां संचयस्य जालमिव जालं, दुःखहेतुत्वादामूलादुद्धर्तुमप्रमत्तेन शक्यम् ॥५८॥ Jain Educatiobl i c For Private Personal Use Only jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy