________________
प्रशमरतिः
अवचूर्णी।
॥६३॥
इन्द्रिययोग्यो विषयो भावः। येनाऽक्षाणीन्द्रियाणि तृप्तिं प्राप्नवन्त्यनेकस्मिन्मार्गे प्रकर्षेण लीनानि ॥४८॥ विषयो-रूपादिः परिणामवशान्मृतकलेवरादिवशादशुभः स्यात् , कचवरादिरशुभोऽपि वर्यः स्याद्धपनादिना ॥४९॥
कारणवशेन-निमित्तसामर्थेन यद्यत्प्रयोजनमर्थो जायते, यथा-येन प्रकारेण स्यात्तथा-तेनैव प्रकारेण तमर्थ शुभमशुभ चिन्तयति, यथा-शत्रुघ्नं विषं पितृघ्नं च ॥५०॥
शब्दादिः स्वरोचनेन परितोषमाधत्ते । स्वमत्या विकल्पो द्विषादिपरिणामजनितविकल्पनं, तत्राभिरता आसक्ताः॥५१॥
कदाचिद्वेषवशतः समुपजातरागस्य कदाचिद्रागवशान्निश्चयतः परमार्थतस्तद्रागद्वेषकारणमेव ॥ ५२॥ । रागद्वेषकृतप्रतिघातस्य ॥ ५३ ॥
इन्द्रियव्यापारे-शब्दादिप्रवर्तने भव्यमभव्यं वा करोति परिणामं रागयुतो द्वेषयुतः, स आत्मनो भावः कर्मबन्धस्य तस्य तस्य निमित्तमात्ममो-जीवस्य भवति ॥५४॥
मोहोऽज्ञानं, तत्त्वार्थाश्रद्धानं मिथ्यात्वमाश्रवेभ्योऽनिवृत्तिरविरतिः, रागादिभिर्विकथादिप्रमादमनःप्रभृतियोगयुतैः ॥५६॥
एतेषां दोषाणां संचयस्य जालमिव जालं, दुःखहेतुत्वादामूलादुद्धर्तुमप्रमत्तेन शक्यम् ॥५८॥
Jain Educatiobl
i c
For Private Personal Use Only
jainelibrary.org