Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्र. र. १२
Jain Education
पस्यतो निष्प्रतिकर्मणः परो यदुपकरोति संस्करोति तदयुक्तं, अन्योन्यक्रिया साऽपि निष्प्रतिकर्मवपुषो न युज्यते ॥ ११७ ॥ साध्वाचारः पूर्वोक्ताध्ययनकथितस्त्ररूपः । खलु - निश्चयेन । अयं प्रत्यक्षः ॥ ११८ ॥
भावना - वासनाऽभ्यासः षड्डीवनिकाययतनादिका, तदाचरणेन च गुप्तहृदयस्य च - मूलोत्तरगुणैर्गुप्तमनस्कतदनुष्ठानव्यग्रस्य, किंभवतीत्याह-न तदस्ति कालविवरं यत्र कालच्छिद्रेऽभिभूयते प्रमादकषायविकथादिभिः ॥ ११९ ॥
X
X
X
X
X
स्वल्पकालेनैव विपरिणामधर्माः - कुत्सितपरिणामधर्मा अन्यथाभवनस्वभावाः, मर्त्या - मरणधर्मिणो मनुष्यास्तेषामृद्धिसमु| दया- धनधान्यहिरण्यस्वर्णादिविभूतिसमूहा अनित्याः । संयोगाः - पुत्रपुत्रीप्रभृतिसम्बन्धाः विप्रयोगावसानाः शोकोत्पादका भवन्ति, ततो न किञ्चिद्विषयाभिलाषेण ॥ १२१ ॥
भोगजनितसुखैः क्षणविनश्वरैः प्रभूतभीतिभृतैः काङ्क्षितैरभिलषितैः शब्दादिविषयाधीनैः किं ?, न किञ्चित्प्रयोजनमेभिस्तस्मात्तेष्वभिलाषमपहाय नित्यमात्यन्तिकमभयमविद्यमान भीतिकमात्मस्थं - स्वायत्तं [ यत् ] प्रशमसुखं, मध्यस्थ स्याडरक्तद्विष्टस्योपशान्तकषायस्य यच्छर्म तदेवंविधं तत्रोद्यतो भव ॥ १२२ ॥
इन्द्रियग्रामस्य शब्दादिविषयस्य लब्धुमिच्छतः प्रिये कर्तव्ये यावत्प्रयासः क्रियते तावत्तस्यैवाऽक्षसमूहस्य निग्रहे वरतरं - बहुगुणमृजुचित्तेनोद्यमः कृतः ॥ १२३ ॥
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240