Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 196
________________ गृहित्वफलं प्रशमरतिः हारि वृत्तिः ॥५७॥ प्राप्य मोक्षगामीति त्रिवनभावात् , वाशब्दात् सप्ताष्टभवान्ते वा सेत्स्यति । तत्र सप्त भवा देवा अष्टौ चारित्रयुताः, मिलिताः पञ्चदश १५ इति अविराधितश्रामण्यस्य, इतरस्य त्वष्टमे चारित्रे मोक्षः, अत्र विचाले भवा अनेकादयो द्रष्टव्याः ॥ ३०१॥ इत्यार्याषट्रस्य प्रशमरतिस्वर्गापवर्गफलप्रतिपादकस्य संक्षेपार्थः॥ साम्प्रतं गृहाश्रमपरिपूर्णधर्मयुक्तानामनन्तरपरंपरफलमभिधित्सुराहयश्चेह जिनवरमते गृहाश्रमी निश्चितः सुविदितार्थः। दर्शनशीलवतभावनाभिरभिरञ्जितमनस्कः ॥३०२॥ स्थूलवधानृतचौर्यपरस्त्रीरत्यरतिवर्जितः सततम् । दिग्वतमूर्ध्व देशावकाशिकमनर्थविरतिं च ॥ ३०३ ॥ सामायिकं च कृत्वा पौषधमुपभोगपारिमाण्यं च । न्यायागतं च कल्प्यं विधिवत्पात्रेषु विनियोज्य ॥३०४॥ चैत्यायतनप्रस्थापनानि कृत्वा च शक्तितः प्रयतः । पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्याः॥ ३०५॥ प्रशमरतिनित्यतृषितो जिनगुरुसाधुजनवन्दनाभिरतः । संलेखनां च काले योगेनाराध्य सुविशुद्धाम् ॥३०६॥ प्राप्तः कल्पेष्विन्द्रत्वं वा सामानिकत्वमन्यद्वा । स्थानमुदारं तत्रानुभूय च सुखं तदनुरूपम् ॥ ३०७॥ नरलोकमेत्य सर्वगुणसम्पदं दुर्लभां पुनर्लब्ध्वा । शुद्धः स सिद्धिमेष्यति भवाष्टकाभ्यन्तरे नियमात् ॥ ३०८॥ यश्च कश्चन इह जिनवरमते-सर्वज्ञागमे गृहाश्रमी मनुष्यः निश्चितः-कृतनिश्चयः सुविदितार्थः-अतिशयज्ञाताभिधेयः तथाऽभिरञ्जितमनस्को-वासितान्तःकरणः । काभिः कृत्वा ?-दर्शनादिभावनाभिः प्रतीतार्थाभिः कृतद्वन्द्वाभिरिति ॥३०२॥ ना तथा स्थूलानि च तानि वधानृतचौर्याणि कृतद्वन्द्वानि च तानि तथा, तानि च परस्त्रीरत्यरती च तास्तथा, ताभिर्वर्जितः स ॥५७॥ Jain Education in IINI For Private Personel Use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240