________________
गृहित्वफलं
प्रशमरतिः हारि वृत्तिः ॥५७॥
प्राप्य मोक्षगामीति त्रिवनभावात् , वाशब्दात् सप्ताष्टभवान्ते वा सेत्स्यति । तत्र सप्त भवा देवा अष्टौ चारित्रयुताः, मिलिताः पञ्चदश १५ इति अविराधितश्रामण्यस्य, इतरस्य त्वष्टमे चारित्रे मोक्षः, अत्र विचाले भवा अनेकादयो द्रष्टव्याः ॥ ३०१॥ इत्यार्याषट्रस्य प्रशमरतिस्वर्गापवर्गफलप्रतिपादकस्य संक्षेपार्थः॥
साम्प्रतं गृहाश्रमपरिपूर्णधर्मयुक्तानामनन्तरपरंपरफलमभिधित्सुराहयश्चेह जिनवरमते गृहाश्रमी निश्चितः सुविदितार्थः। दर्शनशीलवतभावनाभिरभिरञ्जितमनस्कः ॥३०२॥ स्थूलवधानृतचौर्यपरस्त्रीरत्यरतिवर्जितः सततम् । दिग्वतमूर्ध्व देशावकाशिकमनर्थविरतिं च ॥ ३०३ ॥ सामायिकं च कृत्वा पौषधमुपभोगपारिमाण्यं च । न्यायागतं च कल्प्यं विधिवत्पात्रेषु विनियोज्य ॥३०४॥ चैत्यायतनप्रस्थापनानि कृत्वा च शक्तितः प्रयतः । पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्याः॥ ३०५॥ प्रशमरतिनित्यतृषितो जिनगुरुसाधुजनवन्दनाभिरतः । संलेखनां च काले योगेनाराध्य सुविशुद्धाम् ॥३०६॥ प्राप्तः कल्पेष्विन्द्रत्वं वा सामानिकत्वमन्यद्वा । स्थानमुदारं तत्रानुभूय च सुखं तदनुरूपम् ॥ ३०७॥ नरलोकमेत्य सर्वगुणसम्पदं दुर्लभां पुनर्लब्ध्वा । शुद्धः स सिद्धिमेष्यति भवाष्टकाभ्यन्तरे नियमात् ॥ ३०८॥
यश्च कश्चन इह जिनवरमते-सर्वज्ञागमे गृहाश्रमी मनुष्यः निश्चितः-कृतनिश्चयः सुविदितार्थः-अतिशयज्ञाताभिधेयः तथाऽभिरञ्जितमनस्को-वासितान्तःकरणः । काभिः कृत्वा ?-दर्शनादिभावनाभिः प्रतीतार्थाभिः कृतद्वन्द्वाभिरिति ॥३०२॥ ना तथा स्थूलानि च तानि वधानृतचौर्याणि कृतद्वन्द्वानि च तानि तथा, तानि च परस्त्रीरत्यरती च तास्तथा, ताभिर्वर्जितः स
॥५७॥
Jain Education in
IINI
For Private Personel Use Only
M
ainelibrary.org