________________
FSO GRECAUSA
तथा, उपलक्षणत्वात् परिग्रहवर्जित इति च दृश्यं । सततं-अनवरतं, तथोर्ध्व-उपरिष्टादणुव्रतेभ्यः दिग्वतं देशावकाशिक-| गृहित्वफलं मनर्थविरतिं चेति ॥३०३॥ तथा सामायिकं च कृत्वा-विधाय पौषधं उपभोगस्य पारिमाण्यं-परिमाणकरणं तच्च न्यायागतं
च-नीत्यागतं च । किमेवंविधं ?-कल्प्यं-कल्पनीयमन्नादि । केन ?-विधिना, पात्रेषु-चारित्रिषु विनियोज्य, दिव्रतादिर द्र कृत्वेति सम्बन्धः । व्यत्ययनिर्देशश्छन्दोऽर्थ इति ॥ ३०४॥ चैत्यायतनप्रतिष्ठापनानि-बिम्बगृहप्रतिष्ठाः, कृत्वेत्यादि पूर्व-18 क्रियाणां सिद्धिमेष्यतीत्युत्तरक्रियया सम्बन्धः। चाः समुच्चयार्थाः । कथं ?-शक्तितः प्रयतः-आदरवान् , पूजाश्च कृत्वेति | सम्बन्धः । कीदृशीः?-गन्धमाल्याधिवासधूपप्रदीपाः कृतद्वन्द्वाः आद्या यासां तास्तथा ताः कर्मतापन्ना इति ॥ ३०५॥ कीदृशः ?-प्रशमरतिनित्यतृषितः-उपशमे नित्यं पिपासितः, तथा जिनादीनां कृतद्वन्द्वानां वन्दनाभिरतः स तथा । तथा संलेखनां च-शरीरोपकरणकषायसंकोचरूपां च काले-अवसरे योगेन-व्यापारेणाराध्य-आसेव्य सुविशुद्धां-शास्त्रोतामिति ॥ ३०६॥ ततः प्राप्तः । केषु किं-कल्पेषु-सौधर्मादिषु इन्द्रत्वं सामानिकत्वमन्यद्वा स्थानमुदारं-प्रधानं ।। तत्र-तेषु स्थानेषु अनुभूय च-संवेद्य च सुख-शर्म तदनुरूपं-निजस्थानकानुसदृशमिति ॥ ३०७ ॥ ततोऽपि च्युतः नरलोकमेत्य-आगत्य सर्वगुणसम्पदं-विषयसुखसमृद्धिं दुर्लभां पुनः लब्ध्वा शुद्धः सन् स सिद्धिमेष्यति । व?-भवाष्टकाभ्यन्तरे नियमात्-नियमेनेति । आर्यासप्तकस्य श्रावकधर्मविधिप्रतिपादकस्यायं संक्षेपार्थ इति ॥ ३०८॥
इदानीं यदिमां प्रशमरतिं श्रुत्वा प्राप्यते तदार्याद्वयेनाह| इत्येवं प्रशमरतेः फलमिह स्वर्गापवर्गयोश्च शुभम् । संप्राप्यतेऽनगारैरगारिभिश्चोत्तरगुणाढ्यः॥३०९॥
Jain Education
For Private & Personal Use Only
Kondainelibrary.org