________________
प्रशमरतिः हारि. वृत्तिः
॥ ५८ ॥
Jain Educatio
जिनशासनार्णवादाकृष्टां धर्मकथिकामिमां श्रुत्वा । रत्नाकरादिव जरत्कपर्दिकामुद्धृतां भक्त्या ॥ ३१० ॥
इह चतुर्थगणः पञ्चमात्र इति । एतत्फलं - जन्यं । कुतः ? - प्रशमरतेः सकाशात् । कीदृशम् ? - शुभमिह स्वर्गापवर्गयोश्च प्राप्यते । कैः १ - अनगारैः - साधुभिः, तथा अगारिभिः - गृहिभिश्च उत्तरगुणाढ्यैः - निजभूमिकापेक्षया पिण्डविशुद्ध्यादिदिग्नतादिसमृद्धैरिति ॥ ३०९ ॥ जिनशासनार्णवात् - तीर्थ कृदागमसिन्धोरा कृष्टां - आनीतां धर्मकथिकां - द्विविधधर्मप्रतिपादिका - मिमां प्रशमरतिमेतच्छास्त्रं कर्मतापन्नं । किं कृत्वा ? - श्रुत्वा - आकर्ण्य । कस्मादिव काम् ? - रत्नाकरादिव जरत्कपर्दिकांजीर्णवराटिकां समुद्धृतां समाकृष्टां । कया ? - भक्त्या - प्रशमप्रीत्या । अयमर्थः - आकृष्टामिति जिनशासनादित्यत्र योज्यम् । | उद्धृतामिति रत्नाकरादित्यत्र सम्बन्धनीयम् । अत्रार्याद्वयक्रियाकारकघटनैवं बोद्धव्या - इमां धर्मकथिकां श्रुत्वा फलं शुभं प्रशमरतेः संप्राप्यतेऽनगारैरगारिभिश्चेति ॥ ३१० ॥
साम्प्रतं सत्पुरुषैर्यादृग्गुणोपेतैर्ये त्याज्या ये च ग्राह्या यन्निमित्तश्च यत्नो विधेयस्तदेतत्सर्वमाह - सद्भिर्गुणदोषज्ञैर्दोषानुत्सृज्य गुणलवा ग्राह्याः । सर्वात्मना च सततं प्रशमसुखायैव यतितव्यम् ॥ ३११ ॥ सद्भिः - सत्पुरुषैर्गुणदोषज्ञैः - यथावस्थितगुणदोषविद्भिः, किं कार्य ? - दोषानुत्सृज्य - परित्यज्य गुणलवा ग्राह्या-गुणांशा ग्राह्याः, प्रकटनीयाः । केन ? - सर्वात्मना च - अशेषप्रकारैरपि सततं - अनवरतं । तथा प्रशमसुखायैव यतितव्यं - यत्नः कार्य इति ॥ ३११ ॥
॥ इति प्रशमरतिफलाधिकारः २२ ॥
ional
For Private & Personal Use Only
प्रशमरति श्रवणफलं
1146 11
ainelibrary.org