SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ क्षामणं शासनशंसाच SUSRUSARSURRORICANTRA साम्प्रतमौद्धत्यं परिहरन् छद्मस्थत्वात् स्वस्य सदोषतां पश्यन् अन्यैश्च यद्विधेयं तदर्शयन्नाहयच्चासमंजसमिह च्छन्दःशब्दसमयार्थतोऽभिहितम् । पुत्रापराधवन्मम मर्षयितव्यं बुधैः सर्वम् ॥३१२॥ यत्पुनरिह-अत्र प्रशमरतिप्रकरणेऽसमंजसं-असंगतं तन्मम मर्षयितव्यमिति योगः। छन्दो रचनाविशेषः शब्दः-संस्कृति तादिभेदभिन्नः समयः-सिद्धान्तः तस्यार्थः-अभिधेयस्तेषां द्वन्द्वः तेभ्यस्ततः-तानाश्रित्य अभिहितं-प्रतिपादितं पुत्रापराधवत्-तनयविनाशवत्पित्रेव तन्मर्षयितव्यं-सोढव्यं बुधैः-विद्वद्भिः सर्वमिति ॥ ३१२॥ सांप्रतमवसानमङ्गलमाहसर्वसुखमूलवीजं सर्वार्थविनिश्चयप्रकाशकरम् । सर्वगुणसिद्धिसाधनधनमर्हच्छासनं जयति ॥ ३१३॥ जयति-अतिशेते। किं तत्-अर्हच्छासनं । कीदृशं?-सर्वसुखानामैहिकामुष्मिकाणां मूलं कारणमिति समासः। सर्वार्थानां विनिश्चयो-निर्णयस्तस्य प्रकाश:-प्रकटनं तं करोतीति समासः। सर्वगुणानां-क्षान्त्यादीनां सिद्धिः-निष्पत्तिस्तस्याः |साधने-निष्पादने धनमिव धनं, यथा धनेन सता सर्वाणि कार्याणि सिध्यन्ति तथा क्षान्त्यादिगुणावाप्तिसाधने धनकल्पमहेच्छासनं-जैनागमो जयति-विजयमनुभवतीति ॥ ३१३ ॥ यत्यालये मन्दगुरूपशोभे सन्मङ्गले सदुद्धराजहंसे । तारापथे वाऽऽशुकविप्रचारे श्रीमानदेवाभिधसरिगच्छे ॥१॥ भव्या बभूवुः शुभशस्यशिष्याः, अध्यापकाः श्रीजिनदेवसंज्ञाः । तेषां विनेयैर्बहुभक्तियुक्तैः, प्रज्ञाविहीनैरपि शास्त्ररागात्॥२॥ SEARNAGAR Jain Educatio n al For Private & Personel Use Only Trainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy